SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ with or Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Ka ३०३६ चरक-संहिता। [ कासचिकित्सितम् कटुकोष्णविदाह्यम्ल-क्षाराणामतिसेवनम् । पित्तकासकर क्रोधः सन्तापश्चाग्निसूर्यजः॥८॥ पीतनिष्ठीवनाक्षत्वं तिक्तास्यत्वं खरामयः। उरोवूमायनं तृष्णा-दाहमोहारुचिभ्रमाः॥ प्रततं कासमानश्च ज्योतीषोव च पश्यति । श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके॥६॥ गुभिष्यन्दिमधुर-स्निग्धस्वप्नविचेष्टितैः। वृद्धः श्लेष्मानिलं रुडा कफकासमुदीरयेत् ॥१०॥ मन्दाग्नित्वारुचिछर्दि-पीनसोत्क्लेशगौरवः । लोमहर्षास्यमाधुर्य-क्लेदसंसदनैर्युतम्॥ बहुलं मधुरं स्निग्धं घनं ष्ठीवेत् कर्फ तथा। कासमानो ह्यरुग वक्षः सम्पूर्णमिव मन्यते ॥ ११॥ जीर्णेऽन्ने पुनरूद्ध वातस्य मारुतो बलवान् भवेत्। इति वातकासलिङ्गानि ॥७॥ गङ्गाधरः-अथ पित्तकासमाह-कटुकोष्णेत्यादि। कुटुकादीनामतिसेवनं पित्तकासकर, क्रोधोऽनिमूर्यजः सन्तापश्च पित्तकासकरः॥८॥ गङ्गाधरः-इति निदानमुक्त्वा लिङ्गमाह-पीतेत्यादि। पैत्तिके कासे यनिष्ठीवति तत् पीतमक्षि च पीतम्। वक्षो धूमायते। कासमानो नरः प्रततं ज्योतीषीव कासवेगान्नेत्रज्योतींषि निर्गच्छन्तीव पश्यति ॥९॥ गङ्गाधरः-कफकासमाह-गुर्चभीत्यादि। शब्दविशेषस्य कासस्याकरणसामर्थ्यानिश्चलकफस्य कथं कफकासः स्यादित्यतः सम्पाप्तिमाह । गुादिभिः हेतुभिद्धः श्लेष्माऽनिलं रुद्धा तेन रुद्धानिलविशिष्टः सन् कफकासमुदीरयेत् ॥१० गङ्गाधरः-तस्य लक्षणमाह-मन्देत्यादि। कासमानः स मन्दाग्निखादिभिः चक्रपाणिः—कटित्यादिना पित्तकासहेतुलिङ्गमाह। अग्निसूर्याज इति अग्निसूर्यभवः सन्ताप इत्यर्थः ॥ ८॥ चक्रपाणिः-उरोधूमायनमिति उरसो धूमोद्वमनमिव । पित्तजेऽपि उद्वमनं श्लेष्मनिष्ठीवनम्। व्याधेरुरप्रभृतिकफस्थानमूतत्वेन श्लेष्मपित्तसंसर्गो जायते इति ज्ञेयम् ॥९॥ चक्रपाणिः-गुर्धित्यादिना श्लेष्मजमाह ॥ १० ॥११॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy