________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८श अध्यायः]
चिकित्सितस्थानम् । ३०३५ प्रतिघातविशेषेण तस्य वायोः सरंहसः। वेदनाशब्दवैशेष्यं कासानामुपजायते ॥५॥ रुतशीतकषायाल्प-प्रमितानशनं स्त्रियः। वेगधारणमायासो वातकासप्रवर्तकाः ॥ ६॥ हृत्पाश्वोरःशिरःशूल-स्वरभेदकरो भृशम् । शुष्कोर कण्ठवक्तस्य हृष्टलोम्नः प्रताम्यतः॥ निर्घोषदैन्यनामास्य-दौर्बल्यक्षोभमोहकृत् । शुष्कः कासः कर्फ शुष्कं कृच्छ्रान्मुक्त्वाल्पतां व्रजेत् ॥ स्निग्धाम्बुलवणोष्णश्च भुक्तपीतैः प्रशाम्यति।
ऊर्द्ध वातस्य जीणेऽन्ने वेगवान् मारुतो भवेत् ॥७॥ कास इति । अपरश्चाह–प्रतिघातेत्यादि । तस्य कारणविशेषे कुपितस्य वायोः सरंहसो जातवेगस्य स्वेनैव प्रतिघातविशेषेण वेदनाशब्दवैशेष्यं वेदनाविशेषसहितशब्दवैशेष्यं कासानामुपजायते । इति कासनात् कास उच्यते ॥५॥ .
गङ्गाधरः-सम्प्राप्तिपूर्वकनिरुक्तिमुक्त्या निदानमाह-रुक्षेत्यादि । रुक्षादीनि प्रमितान्तान्यन्नानि। अल्पं मात्रयाऽल्पं प्रमितमत्यल्पमन्त्रम् । अनशनं लङ्घनमिति न तु रुक्षादीनामनशनमविवक्षितखादयोग्यत्वाच्च वातकोपे। स्त्रियोऽतिसेविता वेगानामविधाऱ्याणां धारणम् आयासः श्रमः वातकासप्रवर्तका वातकासहेतवः ॥६॥
गङ्गाधरः-वातकासलिङ्गमाह-हृदित्यादि। हृदादिषु शूलं स्वरभेदश्च करोति। ऊरआदि शुष्कं यस्य तस्य हृष्टलोम्नः प्रताम्यतो ग्लानिमतः । निघोषः प्रबलः कासशब्दः क्षामास्यं क्षीणमुखम्। ईदृशस्य शुष्कः कासः शुष्कं कर्फ कृच्छान्मुक्त्वाल्पतां व्रजेत् । स्निग्धाद्य (क्तैः पीतैश्च शाम्यति । उच्यते। कस गतिशातनयोरिति धातोरयं प्रयोगः। एवं सामान्योक्तस्य भेदहेतुमाह-- प्रतीघातेत्यादि। प्रतीघात इत्यावरणं कफादि। सरंहसः सवेगस्य। वेदना पोड़ा। वैशिष्टर विशिष्टत्वम् भिन्नत्वमिति यावत् ॥५॥
चक्रपाणिः-रुक्षेत्यादिना वातजस्य हेतुलक्षणे आह ॥ ६ ॥ चक्रपाणिः-प्राम्यतः इति तमसीव प्रविशतः । अर्द्ध वातस्येति ऊर्द्ध तया प्रकुपितवातस्य ॥७॥
For Private and Personal Use Only