________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०३४
चरक-संहिता। (काचिकित्सितम् पूर्वरूपं भवेत् तेषां शूकपूर्णगलास्यता। कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ॥४॥ अधः प्रतिहतो वायुरूई स्रोतःसमाश्रितः। उदानभावमापन्नः कण्ठे सक्तस्तथोरसि ॥ आविश्य शिरसः खानि सर्वाणि प्रतिपूरयन् । आभञ्जन्नाक्षिपन् देहं हनुमन्ये तथाक्षिणी ॥ नेत्रपृष्ठमुरः पार्वे निर्भज्य स्तम्भयंस्ततः। शुद्धो वा सकफो वापि कासनात् कास उच्यते ॥
गङ्गाधरः-पूर्वरूपमित्यादि। शूको यवाग्रजादिः। भोज्यानामवरोधः कण्ठशोषाद भुक्तमन्नं कण्ठेऽवरुध्यते, अभ्यवहारासामर्थ्य मित्यन्येऽपरे खरुचिमाहुः॥४॥
गङ्गाधरः-सम्माप्तिमाह-अध इत्यादि। वायुरधस्तात् केनापि कारणेन तथा स्वभावात् स्वयमेव प्रतिघातवानधस्ताद्भवति। अधस्तात् स्वेन प्रतिघातादूर्द्ध स्रोतःसमाश्रितः सन्नुदानभावमुदानानुगतभावमापन्नः कण्टे तथोरसि सक्तः संलग्नः सन् शिरसः खानि मुखनासिकाकर्णनेत्रच्छिद्राण्याविश्य तानि सर्वाणि खानि प्रतिपूरयन् देहमाभञ्जन्नाक्षिपंश्च देहं हनुमन्ये तथाक्षिणी आक्षिपन् नेत्रपृष्ठमुरः पार्श्वे द्वे च निर्भुज्य निर्भुग्णानि कृखा ततः स्तम्भयंश्च शुद्धः सकफो वा कास उच्यते, कस्मात् ? कासनात् । कास कुशब्द। कुशब्दं भिन्नखरविशेष कुर्वन् निरेतीति। स वायुः सकफः शुद्धो वा कास उच्यते । कश्चिदाह-शिरकण्ठाद्याक्षिपन् कसति निर्गच्छति इति कस गतावित्यस्य रूपं
चक्रपाणिः-पूर्वरूपमाह-पूर्वेत्यादि। शूकैरिव पूर्णः शूकपूर्णः गल आस्यञ्च यस्य । भोज्यानामवरोधोऽरुचिः अशक्तिर्वा ॥ ४ ॥
क्रपाणिः-अप इत्यादिना सम्प्राप्तिमाह । उदानभावनापन्न इति उर्द्धगतिस्वभावमापनः । खानीति स्रोतांसि। निर्भुज्येति आक्षिप्य । नेतादीन्येव स्तम्भयन् कास इत्यन्वर्थसंज्ञया
For Private and Personal Use Only