________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टादशोऽध्यायः। अथातः कासचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ तपसा तेजसा धृत्या धिया च परयान्वितः। आत्रेयः कासशान्त्यर्थमिदमाह चिकित्सितम् ॥२॥ वातादिजास्त्रयो ये च क्षतजः क्षयजस्तथा। पञ्चैते स्युर्तृणां कासा वईमानाः क्षयप्रदाः ॥३॥ गङ्गाधरः-अथोद्दिष्टक्रमाद्धिक्काश्वासचिकित्सितानन्तरं कासचिकित्सितमाह-अथात इत्यादि। अथेत्यादि सर्च पूर्ववद्याख्येयम् ॥१॥
गङ्गाधरः-तपसेत्यादि। आत्रेयः पुनर्वसुः॥२॥ ___ गङ्गाधरः-वातादिजा इत्यादि। वातादिजास्त्रय इति वातजपित्तजश्लेष्मजा इति त्रयः कासाः। प्रागभिहितमष्टोदरीये पञ्च कासा इति वातपित्तकफक्षतक्षयना इति, तस्यायमनुवादस्तु वर्द्धमानक्षयप्रदा इत्युपदेशार्थमुत्तरोत्तरं बलवन्तश्चेति शापनार्थश्च ॥३॥
चक्रपाणिः-हिकाश्वासानन्तरं समानचिकित्सितत्वात् तथा हिक्कावासकासानां परस्परानबन्धित्वाच्च कासचिकित्सितमुच्यते। अत्रात्रेयस्याभिधानादेव शिष्यप्रश्नोऽनुमीयते, न पृष्टा गुरवो वदन्तीति न्यायात् ॥ १॥२॥
चक्रपाणि:-क्षय इति धातुक्षयः, तेन राजयक्ष्मसम्बन्धानां क्षीणधातुपुरुषभवाणां तथा जराकासस्य क्षयजशब्देन ग्रहणं भवति । क्षतोद्भवस्य क्षतपूर्वकयक्ष्मभवस्य तथा क्षतक्षीणस्य च कासस्य ग्रहणं भवति। पञ्चति संख्यया सकलकासावरोधो ज्ञेयः। क्षयप्रदा इति देहक्षयप्रदाः न मारका इति यावत्। किञ्च क्षयजोऽपि कासः पुनर्विशिष्टक्षयप्रदो भवति, यथा ज्वरोत्पत्ते रक्तपित्तं, रक्तपित्तात् पुनर्वरो भवति । उक्त हि "-ज्वरसन्तापाद रक्तपित्तमुदीयंते, रक्तपित्तात् ज्वरः इति ॥३॥
For Private and Personal Use Only