________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०३२
चरक-संहिता। हिवाश्वासचिकित्सितम् तस्माच्छुद्धानशुद्धांश्च शमनै हणैरपि। हिकाश्वासादि तान् जन्तून् प्रायशः समुपाचरेत् ॥ ४६॥
तत्र श्लोकः। दुर्जयत्वे समुत्पत्तौ क्रियैकत्वे च कारणम् । लिङ्ग पथ्यश्च हिकानां श्वासानाश्च निदर्शितम् ॥५०॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने हिकाश्वासचिकित्सितं नाम
सप्तदशोऽध्यायः ॥ १७॥ भृशोऽयो भवेदिति, तस्माद्धिक्काश्वासादि तान् सर्वान् जन्तून् शुद्धान् अशुद्धांश्च शमन हणैरपि प्रायश उपाचरेन तु कर्षणैरिति ॥४९॥
गङ्गाधरः-तत्र श्लोकः संग्रहार्थम्। दुर्जयख इत्यादि ॥५०॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अप्राप्ते तु दृढ़बलप्रतिसंस्कृत एव च। हिक्कावासचिकित्सिते वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे हिक्काश्वास
चिकित्सितजल्पाख्या सप्तदशी शाखा ॥१७॥ भवनपि अल्पः शक्यश्च भवति, शक्यमेव तु क्रियमाणेऽपायो भवतीति योज्यम्। न्यायोपपादितं वृहणशमनं वृहणं वा प्रायः कर्त्तव्यतया उपसंहरन्नाह-तस्मादित्यादि। अत्र शमनमशुद्धविषयं वृहणञ्च शुद्धविषयं केचिदाहुः। शमनस्यैव तु वृहणत्वं केचित् उदाहरन्ति ॥४९॥
चक्रपाणिः-दुर्जय इत्यादिकोऽध्यायार्थसंग्रहो व्यक्तः ॥ ५० ॥
इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटोकायां चिकित्सितस्थानव्याख्यायां हिक्कावासचिकित्सितं
नाम सप्तदशोऽध्यायः ॥ १७ ॥
For Private and Personal Use Only