________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४०
चरक-संहिता। [कासचिकित्सितम् वस्तिभिर्वद्धविड़ वातं शुष्कोर्द्धचौद्धभक्तिकैः। घृतैः सपित्तं सकर्फ जयेत् स्नेहविरेचनैः ॥१८॥ कण्टकारीगुड़ चीभ्यां पृथक्त्रिंशत्पलाद रसे। प्ररथः सिद्धो घृताद वात-कासनुद् वह्निदीपनः ॥ १६ ॥
कण्टकारीघृतम्। पिप्पलीपिप्पलीमूल-चव्यचित्रकनागरैः। धान्यपाठावचारास्ना-यष्टयाह्वनारहिङ्गभिः॥ कोलमात्रैघृतप्रस्थाद् दशमूलीरसाढ़के। सिद्धाच्चतुर्थिकां पीत्वा पेयां मण्डं पिबेदनु ॥ तत् श्वासकासहृत्पाव-ग्रहणीदोषगुल्मनुत् । पिप्पल्याद्य घृतञ्चैतदात्रयेण प्रकीर्तितम् ॥ २० ॥
पिप्पल्यादिघृतम्। न तु रुक्षः स्वेदैरिति। तत्र बद्धविड़ वातं वस्तिभिर्जयेत्। शुष्कोद्ध शुष्कविड़ई वातम् औत्तरभक्तिकै तर्जयेत् । सपित्तं सकर्फ वातं वातकासिनः स्नेहविरेचनैर्जयेत् ॥ १८॥
गङ्गाधरः-मूत्राण्युक्त्वा स्नेहादियोगानाह-कण्टकारीत्यादि। कष्टकार्यास्त्रिंशत्पलं गुडू च्यास्त्रिंशत्पलमेकीकृत्याष्टगुणे जले पक्त्वा पादशेषे रसे पञ्चदशशरावेऽकल्कसिद्धो घृतात् प्रस्थः वातकासनुद्वह्निदीपनश्च । कण्टकारीघृतम् ॥ १९॥
गङ्गाधरः-पिप्पलीत्यादि। पिप्पल्यादिभिः प्रत्येक कोलमात्रैः कल्कैदेशमूलीरसाढ़के षोडशशरावे सिद्धाद घृतप्रस्थाच्चतुर्थिकां पलं पीखा पेयां मप्डं वानुपिबेत् । तत् श्वासादिनुत्। पिप्पल्यादिघृतम् ॥ २०॥
चक्रपाणिः-रुक्षस्येत्यादिना चिकित्सामाह। शुष्कम् ऊर्द्ध यस्य सः, शुष्कोर्द्ध शुष्क कासगृहीतं वातपित्तम् ऊर्द्धभक्तिकैः घृतैर्जयेत्। शुष्को मेव सकर्फ स्नेहविरेचनैर्जयेत् ॥ १८ ॥
चक्रपाणिः-कण्टकारीत्यादौ रसे इति क्वाथे ॥ १९॥ चक्रपाणि:-चतुर्थिकामिति पलम् ॥ २० ॥
For Private and Personal Use Only