________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२८
चरक-संहिता। हिक्वाश्वास किस्सितम सुखोष्णं घृतमण्डं वा सन्धवेनावचूर्णितम् । नावयेन्मक्षिकाविष्ठामलक्तकरसेन वा॥ नारीक्षीरेण वा सिद्धं सर्पिर्मधुरकैरपि । नस्तो निषिक्तं पीतं वा सद्यो हिकां नियच्छति ॥ सकृदुष्णं सकृच्छीतं व्यत्यासाद्धिकिनां पयः। पाने नस्तःक्रियायां वा शर्करामधुसंयुतम् ॥ ४१॥ अधोभागे घृतं सिद्धं सद्यो हिक्कां नियच्छति। पिप्पलीमधुसंयुक्तौ रसौ धात्रीकपित्थयोः ॥ लाक्षालाजमधुद्राक्षा-पिप्पल्यश्वशकृद्रसम्। लिह्यात् कोलमधुद्राक्षा-पिप्पलीनागराणि वा ।
प्रत्येकं मूलं चूर्णयित्वा नावयेत्। नारीक्षीरेण चन्दनं वा नावयेत्। सुखोष्णमित्यादि। मुखोष्णं घृतमण्डं सन्धवमिश्रं नावयेद् वा। नावयेदित्यादि। मक्षिकाविष्ठामलक्तकरसेन गोलयिखा नारीक्षीरेण वा गोलयिखा नावयेत् । मधुरकैर्जीवनीयैः कल्कैश्चतुर्गुणजले सिद्धं सर्पिरपि नस्तो नासिकायां निषिक्तं नासिकया पीतं वा सद्यो हिकां नियच्छति। एतत् शव्यादिकं हिक्कायां बोध्यम् । सकृदित्यादि। सकृदेकवारमुष्णं पय एकवारं शोतं पय इत्येवं व्यत्यासाद्धिकिनां पाने योज्यम् । नस्तःक्रियायां शर्करामधुसंयुतं शीतं पयः॥४१॥
गङ्गाधरः-अधोभाग इत्यादि। अधोभागे वैरेचनिके द्रव्ये कल्के चतुर्गुणजले सिद्धं घृतं सद्यो हिक्कां नियच्छति । पिप्पलीत्यादि। धात्रीरसः पिप्पली. चूर्णमधुसंयुक्तस्तथा कपित्थफलमध्यः पिप्पलीमधुसंयुक्तस्य रस इत्येतो द्वौ रसौ लिह्यात्। लाक्षेत्यादि। लाक्षादिकञ्च मधुहयशकुदरसाभ्यां लिह्यात् । पलाण्डुः। माक्षिीमिति मक्षिकाभवाम् । मधुरकरिति जीवनीयैः। सकृदिति कदाचित् ।
यत्यासात् इति विपर्ययात्। उष्णं पयः कृत्वा शीतं कर्त्तव्यम् । मधुसंयोगश्चात्र विरुद्धत्वात् उष्ण न कर्तव्यः ॥४१॥
चक्रपाणि:-अधोभागैरिति विरेचनद्रव्यैः ॥ ४२॥
For Private and Personal Use Only