________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः
चिकित्सितस्थानम् । ३०२७ एषां पाणितलं चूर्ण तुल्यानां क्षौद्रसर्पिषा। हिक्कां श्वासश्च कासश्च लीदमाशु नियच्छति ॥ अञ्जनात् तिमिरं काचं नीलिकां पिष्टकं तमः। पिल्वं कण्डमभिष्यन्दमर्म चैव प्रणाशयेत् ® ॥४०॥
मुक्ताद्यचर्णम्। शटीपुष्करमूलानां चूर्णमामलकस्य च। मधुना संयुतं लेह्यचूर्ण वा काललोहजम् ॥ सशर्करां तामलकी द्राक्षां गोऽश्वशकृद्रसम् । तुल्यं गुड़ नागरश्च प्राशयेन्नावयेत् तथा ॥ लसुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य च। नावयेच्चन्दनं वापि नारीतीरेण संयुतम् ॥
मारितपुटितं ताम्ररजः मारितपुटितश्च लौहरजस्तथा रूप्यमपि मारितपुटितं ग्राह्यम् । सौगन्धिकं कहारपुष्पं कशेरुश्च जातीफलं शणस्य फलानि अपामार्गस्य तण्डुलाश्चेत्येषां तुल्यानां मिश्रितानां चूर्ण पाणितलं कर्षमाणं देहबलापेक्षयाल्पमानमपि क्षौद्रसर्पिषा लीढं हिक्कादिकं नियच्छति। चूर्णमिदम् अञ्जनात् तिमिरादीन् नाशयेत् । मुक्ताद्य चूर्णम् ॥ ४०॥
गङ्गाधरः-शटीत्यादि। शटीपुष्करमूलानां चूर्ण मधुना संयुतं लेह्यम् । आमलकस्य. चूर्ण मधुना लेह्यम्। काललोहजं मारितपुटिततीक्ष्णलौहचूर्ण मधुना लेह्य हिक्कादिषु पूर्वोक्तेषु। सशर्करामित्यादि। शर्करां भूम्यामलकी गोऽश्वशकृतो रसं गुई नागरश्च तुल्यं मेलयिता हिकाश्वासातुरं प्राशयत् तथा नावयेन्नस्य कारयेत् । लसुनस्येत्यादिना चवार। लसुनादीनां त्रयाणां माणिक्यभेदः। सीसकं सौवीराञ्जनम् केचित् कृष्णमणिमाहुः। सेरुकमीषन्नीलपोतो मणिः । पाणितलं कर्षः। मैल्यमिति मलदिग्धाक्षिताम् ॥ ३०॥
पक्रपाणिः-काललोहः लोहं एव, तीणं लोहं केचिद् वर्णयन्ति। गृञ्जनकं लोहित
• मल्यं कण्डूमभिष्यन्दं मन्दश्च तत् प्रणाशयेत् इति चक्रवतः पाठः ।
For Private and Personal Use Only