________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः] चिकित्सितस्थानम् ।
३०२३ दशमूलोशटोराना-पिप्पलीविल्वपौष्करैः। शृङ्गीतामलकीभार्गी-गुड़ चीनागरद्धिभिः॥ यवागू विधिना सिद्धां कषायं वा पिबेन्नरः। कासहृदग्रहपाति-हिकाश्वासप्रशान्तये ॥ ३४॥ पुष्कराह्वशटीव्योष-मातुलुङ्गाम्लवेतसः। योजयेदन्नपानानि ससपि विहिङ्गभिः॥ दशमूलस्य वा क्वाथमथवा देवदारुणः । तृषितो मदिरां वापि हिक्काश्वासी पिवेन्नरः॥ पाठां मधुरसां रानां सरलं देवदारु च । प्रक्षाल्य जर्जरीकृत्य सुरामण्डे निधापयेत् ॥ तन्मन्दलवणं कृत्वा वैद्यः प्रसृतसम्मितम् । पाययेत् तु ततो हिका-श्वासश्चैवोपशाम्यति ॥ हिल सौवर्चलं कोलं समझां पिप्पली बलाम् ।
मातुलुगरसे पिष्टमारनालेन ना पिबेत् ॥ यवागूच श्वासहिकावतां हिता। दशमूलीत्यादि । दशमूल्यादीनि काथयिखाद्धभृते तोये यवागूमण्डपेयाविलेप्यन्यतमा सिद्धा श्वासहि किनां हिता। यवामित्यादि। यद्रव्ययेवागूरुक्ता तैव्यैः विधिना मण्डपेयाविलेपीनामन्यतमा यवागू सिद्धां पिवेत्। एषां कषायं वा हिकाश्वासी नरः पिबेत् ॥३४॥ . गङ्गाधरः-पुष्कराहत्यादि। पुष्कराादिभिः कथितैः सिद्धान्यन्नपानानि सर्पिविहिाभिः प्रक्षिप्तैः सह हिक्कावासिनोर्योजयेत् । दशमूलस्येत्यादि। दषितो हिक्कावासी नरोऽर्द्धशृतं दशमूलस्य काथं पिबेदथवा देवदारुणः काथं पिबेन्मदिरां वा पिबेत् । पाठामित्यादि। पाठादीनि जलेन प्रक्षाल्य कुट्टयिता जर्जरीकृत्य सुरामण्डे चतुर्गुणे षड्गुणे वा निधापयेत् । तन्मन्दलवणमल्पलवणं कला प्रसृतसम्मितं पलद्वयं हिक्कावासिनं वैद्यः पाययेत्। हिङ्गित्यादि। घृते
चक्रपाणिः-दशमूलीत्यादौ कषायशब्दः पानीयस्थानविहितत्वात् अद्वैते जले एवं वर्तते ॥३४॥
For Private and Personal Use Only