________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२२
चरक-संहिता। हिवाश्वासांचकित्सितम पल्लवान् मातुलुङ्गस्य निम्बस्य कूलकस्य च। पक्त्वा मुद्गांश्च सव्योषान् क्षारयूषं विपाचयेत् ॥ दत्त्वा क्षारं सलवणं शिनणि मरिचानि च। युक्त्या संसाधितो यूषो हिकाश्वासविकारजित् ॥ कासमईकपत्राणां यूषः शोभाञ्जनस्य च । शुष्कमूलकयूषश्च हिक्काश्वासनिवर्हणः। सदधिव्योषसर्पिष्को यूषो वार्ताकजो हितः ॥३३॥ शालिषष्टिकगोधूम-यवान्नान्यनवानि च । हिङ्गसौवर्चलाजाजी-विड़पोष्करचित्रकैः ।
सिद्धा कर्कटशृङ्गया च यवागूः श्वासहिकिनाम् ॥ अम्भसि पक्त्वा तस्मिन् रसे यूषः साध्यः, पिप्पलीनागरचूर्णसैन्धवयुक्तो घृतभर्जितः हिकाश्वासिनोभौजने हितः। रास्नादियषः। पल्लवानित्यादि। मातुलुङ्गस्य पल्लवान् निम्बस्य पल्लवान् कूलकस्य पटोलस्य च पल्लवान् व्यस्तान् समस्तान् वा पक्त्वा तस्मिन् रसे मुद्गान् विदलीकृतान् सव्योषान् व्योषचूर्णमनुरूपेण दत्त्वा क्षारयषं पचेत् । कथमित्यत आह-क्षारं यवक्षारं सैन्धवलवणश्च शिग्रणि फलानि मरिचानि च पुनयुक्त्या दत्त्वा संसाधितो यषः क्षारयषः हिक्कावासविकारजित् । क्षारयूषः। कासमद्देत्यादि । कास. मईकपत्रकाथे शोभाञ्जनस्य पत्रकाथे शुष्कमूलककाथे पको यूषो हिकाश्वासनिवर्हणः। सदधीत्यादि। वाकिफलसहितो मुद्गादियूषः सदधि व्योषं दत्त्वा सपिषि भृष्टः हिक्काश्वासिनोभोजन हितः॥३३॥
गङ्गाधरः-शाल्यादीनामनवानामन्नानि हिक्कावासिनोहितानि। तत्र विशेषमाह-हिङ्गित्यादि । घृते भृष्टहिडप्रभृतिभिः कथितः सिद्धा यवागूः शाल्यादीनामनवानां श्वासहिकिनां हिता। तथा ककेटशृङ्गया कथितया सिद्धा वा पिप्पलीयुक्त घृते भजित इति पिप्पलीघृतभर्जितः। एवं रास्नामिस्यादौ रसस्य प्राधान्यम् । पूर्ववत् इति पिप्पलीघृतभर्जितादिकमसिदिशति । क्षारेण युक्तो यूषः। क्षारोऽपामादिः । कासमईति कासमहादीनां यथायोग्यतया प्रक्षेपः । जलमानादिना संस्कार उन्नेयः ॥३३॥
For Private and Personal Use Only