________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः] चिकित्सितस्थानम् । दृढ़ान् बहुकफांस्तस्माद् रसैरानूपवारिजः। तृप्तान विशोधयेत् खिन्नान वृहयेदितरान् भिषक् ॥ ३१ ॥ शिखितित्तिरिदक्षाद्या जाङ्गलाश्च मृगा द्विजाः। दशमूलीरसे सिद्धाः कौलत्थे वा रसे हिताः ॥ ३२ ॥ निदिग्धिकां विल्वमध्यं कर्कटाख्यां दुरालभाम् । त्रिकण्टकं गुड़ चीञ्च कुलत्थांश्च सचित्रकान् ॥ जले पत्तवा रसः पूतः पिप्पलोघृतभर्जितः । सनागरः सलवणः स्याद् यषो भोजने हितः ॥ रामां बलां पञ्चमूलं ह्रस्वं मुद्दान् सचित्रकान् ।
पत्तवाम्भसि रसे तस्मिन् यूषः साध्यश्च पूर्ववत् ॥ असून हरेत् । शोध्यानाह-दृढ़ानित्यादि। तस्मादुक्तदोषात्। दृढ़ान् हिक्काश्वासार्त्तान् बहुकफान स्निग्धस्विन्नानानूपवारिजैमो सरसैस्तृप्तानुक्लिष्टकफान् बमनविरेचनाभ्यां विशोधयेत्। दृदबहुकफाद्धिक्काश्वासाहितादितरान दुर्बलान् वाताधिकान् वृद्धान् बालांश्च शमन हयेद भिषगिति ॥३१॥
गङ्गाधरः-शमनहणान्याह-शिखोत्यादि। शिखिप्रभृतयो जाला मृगा द्विजाः पक्षिणः दशमूलीरसे काथे सिद्धाः कोलत्थे वा रसे काथे सिद्धाः Bहणीयानां हिक्कावासादितानां हिताः ॥३२॥ ____ गङ्गाधरः-निदिग्धिकामित्यादि। विल्बमध्यं विल्वफलशस्य, कर्कटाख्या कर्कटमहीम् । चित्रकान्तान्येतानि अष्टौ द्रव्याणि । तत्र सप्त द्रव्याणि मास्थिके जले कर्षमात्राणि पक्त्वार्द्धशृते पूते जले कुलत्थविदलमष्टादशांशैकांशं दत्त्वा पक्त्वा पूतः स यूषभूतो रसः पिप्पलोनागरचूर्णलवणयुक्तो घृतभर्जितो हिक्कावासिनोभौजने हितः। यूषः। रास्नामित्यादि। पूर्ववद् रास्नादिकम् . हदानिति बलवतः। रसैरानूपवारिजः तृप्तान् इत्यनेन कफोत्क्लेशहरणे तृप्तिं दर्शयति । स्विन्नान् इति स्वेदितान् । इतरानिति दुर्बलान् बहुवातांश्च । कफाधिकायामवस्थायां तर्पणरूपविपरीतक्रियाकरणेऽनुक्तेऽपि कफवृद्धया अदोषा एव ज्ञेया ॥३१॥
धक्रपाणिः-इह दशमूलरसादौ वहितित्तिरादीनां सिद्धिः रसविधानेनैव ज्ञया ॥३२॥ चक्रपाणि:-निदिग्धिकामित्यादि यूष वधानं सामान्यपठितमपि कुलत्थस्य यूषप्रकृतित्वाद यूषसाधनौपयिकं मानं गृह्यते। शेषद्व्यन्तु यूषसाधनमानेन गृह्यते। पिप्पलीसाधिते घृते
३७९
For Private and Personal Use Only