SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Ka ३०२० चरक संहिता। हिक्कावासचिकित्सितम् हिक्काश्वासामयी त्वेको बलवान् दुर्बलोऽपरः। कफाधिकस्तथैवको रुक्षो बह्वनिलोऽपरः॥ कफाधिके बलस्थे च वमनं सविरेचनम् । कायं पथ्याशिने धूम-लेहादिशमनं ततः॥ वातिकान् दुर्बलान् वृद्धान् बालांश्चानिलसूदनैः । तर्पयेदेव शमनः स्नेहयूषरसादिभिः ॥३०॥ अनुक्लिष्टकफास्विन्न-दुर्बलानां विशोधनात् । वायुर्लब्धास्पदो मर्म संशोच्याशु हरेदसून ॥ गङ्गाधरः--अथ भेदानाह-हिक्केत्यादि। एको हिक्कामयी श्वासामयी च बलवान् अपरो दुब्बल इति द्विधा द्विधा। अन्यान्यप्रकार एतयोर्वलवद्दुर्बलयोर्मध्ये एकः कफाधिकस्तथा रुक्षो बह्वनिलोऽपर इति द्विधा द्विधैव द्विधा। तत्र कफाधिके बलस्थे च वमनं विरेचनश्च कार्य, ततः पथ्याशिने धूमलेहादिना शमनं कार्यम् । वातिकानित्यादि । वातिकान् वा दुबैलान् वा हिक्कावासाईि तान् दृद्धान् वा कफाधिकबलवतश्च बालांश्च तथाऽनिलसूदनः शमनः स्नेहयूषरसादिभिस्तर्पयेत् ॥ ३०॥ गङ्गाधरः-वमनादिभिदोषो येषां तदाह-अनुदित्यादि। ये दम्या विरेच्यास्ते चेतदनुक्लिष्टकफा अथवा न स्विन्ना अथवा दुबेलास्तेपां घमनविरेचनविशोधनात् वायुर्लब्धास्पदः सन् मम हृदयं संशोष्याशु चक्रपाणिः-चिकित्साभेदार्थ हिकाश्वासिनोऽवस्थाभेदमाह-हिक्केत्यादि । एताश्चतस्रोऽवस्थाः साक्षादुक्ताः। बलवान् वाताधिकः कफाधिकश्चेति । बह्वनिलविशेषणेनापि रुक्षस्निग्धावस्थामम्। तत्र बह्वनिलबहुकफरूपतासूचिते अवस्थाद्वये क्रियां ब्रूते-कफाधिक इति। तत इति धमनविरेचनानन्तरम् । तथा चापरे अवस्थाद्वये समानचिकित्सितमाह-वातिकानिति। बालवृदयोश्चात असंपूर्णक्षीणधातुल्वेन दुर्बलयोः दुर्बलोदाहरणार्थमेवोपादानम् । एतच्च संक्षेपेण चिकित्सासूखमुक्तम्। तेन बलवान् वाताधिकः इत्याद्यवस्थामिश्रिताया युक्तचिकित्साया अपि मिश्रणं कल्पनीयम्। यथा प्रत्येकदोषोक्तचिकित्सा दोषसंसर्ग विकल्प्यते ॥ ३० ॥ चक्रपाणि:--अविषयप्रविष्टशोधने दोषमाह-अनुस्लिष्टत्यादिना। मर्म इति हृदयादीनि । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy