________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः चिकित्सितस्थानम्। ३०१९
कामं कण्ठमुरः कोष्णैः स्नेहसेकैः सशर्करः। उत्कारिकोपनाहैश्च मृदुभिः स्वेदयेत् क्षणम् ॥ तिलोमामाषगोधूम-चूणैर्वातहरैः सह। स्नेहश्चोत्कारिका साम्लैः सक्षोरैर्वा कृता हिता ॥ २७ ॥ नववगमदोषेषु रुदं स्वेदं विलधनम् । समीक्ष्योल्लेखनं वापि कारयेल्लवणाम्बुना ॥ अतियोगोद्धतं वातं दृष्ट्रा वातहरैभिषक । । रसाद तिशीतोष्णैरभ्यङ्गश्च शमं नयेत् ॥ २८॥ उदावर्ते तथाध्माने मातुलुङ्गाम्लवेतसैः। हिडपोलुविड़े श्चान्नं युक्तं स्यादनुलोमनम् ॥ २६ ।। गङ्गाधरः-तेषां यथा स्वेदः कार्यस्तदाह-काममित्यादि। पित्ता दीनां तेषां हिकाश्वासाहितानां कामं यथेच्छं सशर्करैः स्नेहद्रव्यावसेकैः कोष्णैः क्षणं कण्ठ पुरश्च स्वेदयेत् । मृदुभिरुत्कारिकामदेहः कोष्णश्च कण्ठमुरः क्षणं स्वेदयेत्। मृदुभिरुत्कारिकामाह-तिलेत्यादि। तिला उमा माषा गोधूमा इत्येषां चूर्णेतिहरतिलतैलादिभि स्नेहः सह साम्लरुत्कारिकाऽथवाम्लं विना क्षीररुत्कारिका कृता तेषां पित्ता दीनां कण्ठोर स्वेदे हिता॥२७॥
गङ्गाधरः-नवज्वरेत्यादि। पित्तार्तादीनां नवज्वरामदोषेषु रुक्षं वातहरस्नेहं विना तिलोमादीनां चूर्णरुत्कारिकास्बेदं, पित्ता दिभ्योऽन्येषां स्वेद्यानां रुक्षं स्वेदं विलङ्घनश्च समीक्ष्य कारयेत् बलादि समीक्ष्य च लवणाम्बुना वाप्युल्लेखनं वमनं कारयेत् । वमनायतियोगोद्धतं वातं तेषां दृष्ट्वा वातहरेर्मा सरसेतिशीतोष्णः शमं नयेदभ्यङ्गैश्च वातहरैः शमं नयेदिति॥२८॥ .
गङ्गाधरः-उदावर्तेत्यादि। तेषां हिक्कावासादितानामुदावर्ते तथाध्माने च मातुलुङ्गाम्लवेतसहिडपीलुविडैश्च युक्तमन्त्रमनुलोमनं स्यादिति ॥२९॥ ..
चक्रपाणिः-काममित्यादिना स्वेद्यानां स्थानविशिष्टं स्वेदमाह। काममिति इच्छायां सत्याम उत्कारिकोपनाहैः स्वेदयेत् ॥ २७ ॥
चक्रपाणिः-उल्लेखनं वमनम्। अतियोगोदतमिति वमनायतियोगयुद्धम। किंवा अतियोगेन भतिमालोदतम्। पीलुविडसिद्धम् ॥ २८ ॥२९॥
For Private and Personal Use Only