________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०१८
चरक-संहिता। हिक्काश्वासचिकित्सितम् श्योनाकवर्द्धमानानां नाड़ों शुष्कां कुशस्य च । पद्मकं गुगगुलं लोध्र शल्लकों वा घृतप्लुताम् ॥ २४ ॥ स्वरक्षीणातिसारास्ट्रक्-पित्तदाहानुबन्धजान् । मधुरस्निग्धशोतादैहिक्वाश्वासानुपाचरेत् ॥ २५ ॥ न स्वेद्याः पित्तदाहार्ता रक्तस्वेदातिवर्तिनः। लोणधातुबला रुक्षा गर्भिण्यश्चापि पित्तलाः ॥ २६ ॥
म्रक्षयित्वा मल्लकसम्पुट शराबमध्येऽङ्गाराग्निं दत्त्वा सच्छिद्रेण नलिका. प्रवेशाहेण शरावान्तरेण पिधाय तदन्तरग्नौ निक्षिप्य धूमपानोक्तनलिकां तस्मिंश्छिद्रे प्रवेश्य ध्रुमं पिबेत्। एवमेव प्रकारेण गवां शृङ्गं पूर्णयित्वा' अथवा गवां बालं पुच्छकेशमथवा स्नायु चूर्णयित्वा धूमं पिबेत् । श्योनाकेत्यादि। शुष्का श्योनाकस्य नाड़ी घृतप्लुतां धर्म पिबेत् । अथवा वर्द्धमानानामेरण्डानां नाड़ी शुष्कां घृतप्लुताम्, अथवा कुशस्य शुष्का नाहीं घृतप्लुतामथवा पद्मकाष्ठं गुगगुलं लोध्र पिष्ट्वा कृतां वर्ति शुष्कां घृतप्लुतां शल्लकी शल्लकीरक्षकाष्ठं पिष्ट्वा कृतां वर्ति घृतप्लुतां धूमं पिबेत् ॥२४॥ - गङ्गाधरः-स्वरेत्यादि। स्वरक्षीणायनुबन्धनान् हिकाश्वासान् मधुरस्निग्धशीताद्य रुपाचरेत् ॥२५॥
गङ्गाधरः-स्वेदैरुपाचरेदिति यदुक्तं तस्यापवादमाह-न स्वेद्या इत्यादि। पित्ता" दाहार्ता रक्तातिवत्तिनः स्वेदातिवर्तिनः क्षीणघातकः क्षीणबला रुक्षा गर्मिण्यः पित्तलाश्च हिक्कावासादिता न स्वेद्याः नाड़ीप्रस्तरसङ्करैरिति ॥२६॥
मलकसंपुटे चात्र उक्तमपि पातव्यधूमनिर्गमाथ ऊईच्छिद्र कर्त्तव्यम् । पद्मकादिष्वपि घृत. मित्याद्यनुवर्तते। चढमान एरण्डः । लोध्रोऽगुरुः। शल्लकी स्वनामख्याता ॥ २४ ॥
चक्रपाणिः-शीतादेवरित्यादिशब्देन पित्तहरणपिच्छिलादिग्रहणम् ॥ २५॥
चक्रपाणिः-पित्तदाहा" इति पित्ता"न् दाहातींश्च । रक्तं स्वेदश्च अतिवर्तमानौ येषां ते रकस्वेदाविवर्तिनः पित्तप्रकृतयः ॥२६॥
For Private and Personal Use Only