________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः
१७श अध्यायः चिकित्सितस्थानम्। ३०१५ हिनस्ति न स गात्राणि न च दुःखो यथेतरे। न च भोजनपानानां निरुणयचितां गतिम् । इन्द्रियाणां व्यथां नापि काश्चिदापादयेद रुजम् ॥ १९ ॥
इति क्षुद्रश्वासः। स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः । इति श्वासाः समुदिष्टा हिकाश्चैव स्खलक्षणैः ॥ २०॥ एषां प्राणहरा वा घोरास्ते ह्याशुकारिणः । भेषजैः साध्ययाप्यांस्तु क्षिप्र भिषगुपाचरेत् ।
उपेक्षिता दहेयुर्हि शुष्कं कक्षमिवानलः ॥ २१॥ .. न गात्राणि हिनस्ति न च यथेनरे श्वासा यथा दुःखा न तथायं क्षद्रश्वासो दुःखः पीड़ाकरः। न भोजनादीनामुचितां गतिं निरुणद्धि। न चेन्द्रियाणां व्यथाम् आपादयति न च काश्चिद् रुजं रोगान्तरमापादयति । इति क्षद्रश्वासलक्षणम् ॥१९
गङ्गाधरः-तस्य साध्यतामाह–स क्षुद्रश्वासो बलिनः पुंसः साध्य उक्तः, सर्वे महाश्वासादयो यदा खल्वव्यक्तलक्षणाः पूर्वरूपावस्थास्तदा साध्या उक्ताः। अत्र पठन्ति। "क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ उच्यते। त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च।” इति श्वासाः पञ्च समुद्दिष्टा व्याख्याताः स्खलक्षणः। पञ्च हिकाश्च स्वलक्षणः समुद्दिष्टा इति ॥२०॥
गङ्गाधरः-एषां हिक्काश्वासानां प्राणहरा हिक्कावासा वा न चिकित्स्याः। हि यस्मात् ते घोरा आशुकारिण आशुमारकाः। साध्ययाप्यांस्तु हिकाचासान् भिषग भेषजैः क्षिप्रमुपाचरेत् । कस्मात् क्षिमित्यत आह-उपेक्षिता इत्यादि। उपेक्षिताः साध्ययाप्या अपि हिक्कावासा दहेयुर्यथा शुष्कं कक्षं कक्षस्थकाष्ठमनलो दहेदिति ॥२१॥ क्षुद्रवात इति स्वल्पवातर। न सोऽत्यर्थमिति नात्यर्थं दुःखकरः। न दुःख इति न दुःखसाध्यः ॥ १९॥
चक्रपाणिः-सर्वे चाव्यक्तलक्षणा इत्यनेन साध्यत्वेन उक्तानां महावासादीनां व्यक्तसर्च लक्षणताव्यतिरिक्तायामेवावस्थायां साध्यता प्रतिपादयति ॥ २० ॥
चक्रपाणिः-प्राणहरा महाश्वासादयः सम्पूर्ण लक्षण वाः। साध्या याप्या इति बहुवचनं साध्ययाप्यभेदबहुत्वाजझयम् ॥ २१॥
For Private and Personal Use Only