________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०१६
चरक-संहिता। हिक्काश्वापचिकित्सितम् कारणस्थानमूलक्यादेकमेव चिकित्सितम् । द्वयोरपि यथाष्टमृषिभिस्तन्निबोधत ॥ २२ ॥ हिकाश्वासार्दितं स्निग्धरादौ स्वेदैरुपाचरेत् । आक्तं लवणतैलेन नाड़ीप्रस्तरसङ्करः॥ तैरस्य अथितः श्लेष्मा स्रोतास्वपि विलीयते। खानि मार्दवमायान्ति वातश्चाप्यनुलोमताम् ॥ यथाद्रिकुञ्जष्वकांशु-तप्तं विष्यन्दते हिमम् । श्लेष्मा तप्तः स्थिरो देहे स्वेदविष्यन्दते तथा ॥ खिन्नं ज्ञात्वा ततस्तुणं भोजयेत् स्निग्धमोदनम् ।
मत्स्यानां शूकराणाञ्च रसैर्दध्युत्तरेण वा ॥ गङ्गाधरः-कारणेत्यादि। हिकावासयोः कारणस्य स्थानस्य मूलस्योदभवस्थानप्राथमिकस्य चैक्यादेकखाद द्वयोरेकमेव चिकित्सितमृषिभिर्यथादृष्टं तन्निबोधत। इति ॥२२॥
गङ्गाधरः-तचिकित्सितमाह-हिक्केत्यादि। हिकादितं श्वासादितं वा नरमादौ भिषक् स्निग्धः कर्मभिः स्नेह यिखा लवणमिश्रिततेलेनाक्तं नाड़ीप्रस्तरसङ्करैः स्वेदैरुपाचरेत् । तैः स्नेहपूर्वकस्वेदैरस्य हिक्कावासान्यतरादितस्य स्रोतःखपि ग्रथितः श्लेष्मा विलीयते गलितो भवति । खानि रन्ध्राणि माई वमायान्ति। वातश्चाप्यनुलोमतामायाति। तत्र दृष्टान्तः-यथेत्यादि। अद्रिकुजेषु यथा पतितं संहतीभूतं हिमं जलम् अर्को शुतप्तं विष्यन्दते, तथा हिकाश्वासान्यतरादितस्य देहे स्थिरः श्लेष्मा स्वेदैस्तप्तो विष्यन्दते इति। ततः किं कुर्यादित्यत आह-स्विनमित्यादि। ततस्तं हिक्काश्वासाम्यतरादितं सम्यक् खिन्नं ज्ञाला मत्स्यानां शूकराणाञ्च रसः अथवा दयुत्तरेण दधिबहुलेनोपकरणेन स्निग्धमोदनं तूर्णं भोजयेत्। पुनः श्लेष्मा . चक्रपाणिः-संप्रति भिन्नयोरपि हिक्काश्वासयोः यथा समानं चिकित्सितं भवति तथा दर्शयम समानं चिकित्सितमाह-कारणेत्यादि। कारण वाह्यकारणं, स्थानं नाभ्यादि, मूलं दोषः ॥ २२॥ __ चक्रपाणि:- स्निग्धैरिति स्नेहविशेषणम्। अन्ये तु स्निग्धमिति पठन्ति । लवणवत् तेलं लवणतैलम् । कुध्विति विटषु। मत्स्यादीनामित्यादौ मत्स्यानामपि रसः स्वरसः कल्केन कर्तव्यः। दध्युत्तरं दधिसरः। ईदृशश्च भोजनं रसनानुगुणं कफवृदयम् । उक्तं हि श्लोकोवः ?
For Private and Personal Use Only