________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०१४ चरक-संहिता। हिक्काश्वासचिकिस्सितम
ज्वरमूर्छापरीतस्य विद्यात् प्रतमकन्तु तम् । उदावतरजोऽजीर्ण-क्लिनकायनिरोधजः॥ तमसा वर्द्धतेऽत्यर्थं शीतश्चाशु प्रशाम्यति । मजतस्तमसीवास्य विद्यात् सन्तमकन्तु तम् ॥१८॥
इति प्रतमकसन्तमकश्वासौ। रुनायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन् । क्षुद्रश्वाः न सोऽयथं दुःखेनाङ्गप्रवाधकः ॥
गङ्गाधरः-तमकस्यावस्थान्तरेण संज्ञान्तरमाह-ज्वरेत्यादि। ज्वरादिमतस्तमकं तं प्रतम विद्यात्। तस्यैव कारणविशेषजत्वे संशान्तरमाह-उदा. वर्त्तत्यादि। उदावतो वेगधारणजो व्याधिस्तस्माज्जातो, रजो धूलिरजीर्ण सामादिना क्लिन्नं भुक्तं, कायनिरोधः कायाग्निनिरोधः, एभ्यो जातस्तमकः वासोऽत्यर्थ । तमसाऽन्धकारेण वर्द्धते शीतः कर्मभिराशु प्रशाम्यति । तमसि चायं मज्जतीवास्य तमसि मज्जत इव तमकश्वासं तं सन्तमकं विद्यात् । सन्तमकं तं विद्यादितिवचनेन प्रतमकस्योदावर्त्तादिभिरुपद्रव इत्यन्येन यदुध्यते तन साधु ॥१८॥ __ महाधरः क्षुद्रश्वासमाह-रुक्षेत्यादि । रुक्षमन्नपानविहारादिकम्, आयासः श्रमस्ताभ्यां कोष्ठे उद्भवः क्षुद्रवात उदीरयन्नू गच्छन् श्वासान् करोतीति पूज्वस्मादनुवर्तते। सोऽयं क्षुद्रश्वासो नात्यर्थं दुःखेनाङ्गानां प्रबाधकः ।
चक्रपाणिः-ज्वरादिरोगेण तमकस्यैव पित्तसम्बन्धात् प्रतमकसंज्ञां दर्शयन्नाह-ज्वरेत्यादि। उदावर्तेत्यादिना प्रतमकहेतुलक्षणे प्राह। प्रतमक एव सन्तमकः। रजो धूलिः। कायनिरोधो वेगाना निरोधः। किंवा क्लिनकायो वृद्धः, निरोधो वेगनिरोधः। तमसेत्यन्धकारेण किंवा समसा तमोगुणेन। यद्यपि तमकस्य शीतेन वृद्धिरुक्ता तथापि प्रतमकस्य पित्तसम्बन्धत्वात् शीतैश्चाशु प्रशाम्यतीति यदुक्तं तदुपपन्नं भवति । किंवा यथा मद्योत्थविकारस्य मद्य प्रशमनं भवति तथा शीतसमुत्थस्यापि तदात्वमात्रे शीतैः प्रशमनं ज्ञेयम्। सन्तमका प्रतमकभेद इति कृत्वा श्वासानां पसंख्यासिदिः॥ १४॥
चक्रपाणिः-रुक्षेत्यादिना सदश्वासमाह। रुक्षादायासाच्च उनको पस्य स रुक्षावासोमवः ।
For Private and Personal Use Only