SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७श अध्यायः चिकित्सितस्थानम् । श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः। तस्यैव च विमोनान्ते मुहत्तं लभते सुखम् ॥ तथास्योद्ध्वंसते कण्ठः कृच्छाच्छक्नोति भाषितुम् । न चापि लभते निद्रां शयानः श्वासपीड़ितः॥ पावें तस्यावगृह्णाति शयानस्य समीरणः । आसीनो लभते सोख्यमुष्णञ्चैवाभिनन्दति ॥ उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान् । विशुष्कास्यो मुहःश्वासो मुहश्चैवावधम्यते ॥ मेघाम्बुशोतप्राग्वातः श्लेष्मलैश्च प्रवर्द्धते। स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः ॥ १७॥ इति तमकश्वासः। श्लेष्मण्यमुच्यमाने भृशं दुःखितो भवति। तस्यैव श्लेष्मणः कासवेगेन विमोक्षान्ते मुहूर्त मुखं पूच्चक्लेशापेक्षया लभते। तथा पुनरस्यैव कण्ठ उद्ध्वंसते उपस्थितकासवेगः स्यादेवं कासवेगस्यावसराभावेन भाषितु कृच्छात् शक्नोति श्वासपीड़ितत्वेन शयानोऽपि न च निद्रां लभते पुनःपुनः कासवेगात्। तथा निद्राथं शयानस्य समीरणः पार्श्वे द्वे अवगृह्णाति पाश्र्वावग्रहणेन श्वासावरोधः स्यात्। तथा निद्रां न लब्ध्वा पुनरुत्थायासीनः सन् सौख्यं पूर्वक्लेशापेक्षया लभते। तथोष्णमभिनन्दति सुखयति । उच्छिताक्षो नयनयोरुच्छूनभावोऽस्य स्यात्। स्विद्यता ललाटेन युक्तः स्याल्ललाटेऽस्य धम्मो भवति । विशुष्कास्यो मुहुः सन् मुहुः श्वासवान् सन् मुहुश्वावधम्यते गजारूढ़ इव शरीरचालनवान् भवति। मेधादिभिः प्रवद्धते। स तमकः श्वासो याप्यः कालप्रकर्ष, नवोत्थितस्तु साध्यो वा स्याचतुष्पाद: योगात्। वाशब्देन शापनाम् ॥१७॥ इति कण्ठे घुघु रुकशब्दम्। सन्निरुध्यते इति निरोधो भवति । तस्यैव चेति श्लेष्मण इति शेषः । भासीन उपविष्टः । उच्छ्रिताक्ष इति उच्छूनाक्षः । मुहुश्चैवावधम्यते इति क्षणक्षणश्वासेनव वायुना अवधम्यते ॥१७॥ ३७८ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy