SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०१२ चरक-संहिता। [हिकाश्वासचिकित्सितम् विचेताः परिशुष्कास्यो विवर्णः प्रलपन् नरः। छिन्नश्वासेन विच्छिन्नः स शीघ्र विजहात्यसून् ॥ १६ ॥ इति छिन्नश्वासः। प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते। ग्रोवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य च ॥ करोति पीनसं तेन रुद्धो घुर्घरकं तथा। अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीड़कम् ॥ प्रताम्यति स वेगेन कासते सन्निरुध्यते । प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः॥ दह्यमानेन वस्तिना विशिष्टः विप्लुताक्ष उच्छननेत्रः सन् परिक्षीणः श्वसन् श्वासं कुर्वन्नेकलोचनं रक्तमस्य स्यात् । विचेता इत्यादिरूपः प्रलपन् सन् छिन्नश्वासेन विच्छिन्नो भवति, स शीघ्रममून विजहाति। इति त्रयः श्वासा असाध्याः॥१६॥ - गङ्गाधरः-अथ तमकश्वासमाह---प्रतिलोममित्यादि। वायुर्यदा प्रतिलोमं यथा स्यात् तथा स्रोतांसि प्राणवहानि प्रतिपद्यते तदा प्रतिलोमं स्रोतो. गतो वायुः ग्रीवां शिरश्च संगृह्य श्लेष्माणश्च समुदीर्य पीनसं प्रतिश्यायविशेष करोति, तेन पीनसलक्षणकफेन पुनः स्रोतोरोधेन वायोर्मार्गावरोधाद रुद्धः सन् वायुघुघुरक शब्दं करोति। तथा श्वासं प्राणप्रपीड़क प्राणो देहानिःसरतीवेत्येवं प्रपीड़ाजनकमतीव तीव्रवेगं करोति। स श्वासी तेनातीवतीव्रवेगेण प्रताम्यति ग्लायति कासते सन्निरुध्यते निश्चेष्टो भवति। कासमानश्च स प्रमोहं मुहुम्मुहुर्गच्छति। अत्र भ्रम्यते इत्यपपाठः। कासेन श्वसित्ति म श्वासं लभते। मर्मच्छेदरूपा रुक । ( वस्तिनिरोधो मूलनिरोध इत्यर्थः।) रोकलो चरस्वमिह व्याधिप्रभावात्। विच्छिन्नः विमुक्तसन्धिबन्धः। एते खयः श्वारा निसर्गतोऽसाध्याः॥१६॥ - चक्रपाणिः-प्रतिलोमम् इत्यादिमा तमश्वासमाह। श्लेष्माणं समुदीर्य च इत्यनेन सामान्यसंप्राप्युक्तस्यापि इलेष्मणः पुनरभिधानात् इह विशेषण कारणत्वं दर्शयति । धुर्घरकम् For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy