________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०१०
चरक-संहिता। हिक्काश्वासचिकित्सितम् यदा स्रोतांसि रुध्य मारुतः कफपूर्वकः। विष्वग व्रजति संरुद्धस्तदा श्वासान् करोति सः॥१३॥ उद्धूयमानवातो यः शब्दवद दुःखितो नरः। उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम् ॥ प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः । विवृताक्षाननो बद्ध-मूत्रवर्चा विशीर्णवाक् ॥ दोनः प्रश्वसितञ्चास्य दूराद विज्ञायते भृशम् । महाश्वासोपस्पृष्टस्तु निप्रमेव विपद्यते ॥१४॥
इति महाश्वासः। जीवितं हन्तीति वचनेन प्राणोपरोधिनी व्यपेता शुद्धा नाशु किन्तु कालप्रकषणेति प्रायेण। यमिकायाः साध्यलक्षणमाह-अक्षीणश्चेत्यादि। अक्षीणखाद्यभावे यमिका हन्तीति कालप्रकर्षेण न खाशु ॥१२॥
गङ्गाधरः-इति हिक्कानिदानमुक्त्वा श्वासनिदानमाह-यदेत्यादि। कफपूर्वकः कफेन संयुक्तः पूर्व सन् मारुतः स्रोतांसि हिक्काश्वाससाधारणोक्तानि माणवाहीनि न तु हिक्कोक्तानि प्राणोदकानवाहीनि संरुध्य तेन स्रोतो. रोधेन संरुद्धः सन् विष्वग व्रजति, विशु अश्चतीति विष्वक ; सर्वशरीरं व्रजति, तदा वैकारिकान् श्वासान् स करोति ॥१३॥
गङ्गाधरः-सम्माप्तिमुक्त्वा महाश्वासमाह-उलूयेत्यादि। उद्धूयमानवातो यः पुमान् उद्धूयमानवात ऊड धूयमानः स्वयमेव गम्यमानो वातो यस्य स नरः खलु दुःखितः सञ्छब्दवद् यथा स्यात् तथा उच्चैः श्वसिति, यथा संरुद्धो मत्तर्षभोऽनिशमुच्चैः श्वसिति प्रनष्टज्ञानादिर्भवति, अस्य प्रश्वसितं प्रश्वासं भृशं दूराद्विशायते। एष महाश्वासः। एतन्महाश्वासोपसृष्टः पुमान् क्षिपं विपद्यते म्रियते॥१४॥
साध्या, यमिका तृष्णामोहवतां सथः प्राणहृत् गभीराव्यपेते च इत्युक्तम् । अक्षीणेति अक्षीणमांसः ॥ १२॥
चक्रपाणिः-यदेत्यादिना श्वाससंप्राप्तिमाह। स्रोतांसीति प्रकृतत्वात् प्राणोदकवाहीनि खोतांसि। कफपूर्वक इति कफप्रधानः । विष्वग व्रजति सवतो गच्छति ॥ १३ ॥ .
पक्रपाणिः- उधूरमानेत्यादिना महाश्वासलक्षणमाह । उद्ध यमान इति ऊर्द्र धूयमानो वातः ।
For Private and Personal Use Only