________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः] चिकित्सितस्थानम् ।
३००६ अतिसञ्चितदोषस्य भक्तच्छेदकुशस्य च। व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः॥ आसां या सा समुत्पन्ना हिका हन्त्याशु जीवितम् । यमिका च प्रलापार्ति-मोहतृष्णासमन्विता ॥ अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः। तम्य साधयितं शक्या यमिका हन्त्यतोऽन्यथा ॥ १२॥ गङ्गाधरः-पञ्चानामसाध्यखमाह-अतीत्यादि। आसां पश्चानां हिक्कानां मध्ये या हिका अतिसश्चितदोषस्य नरस्य समुत्पन्ना, भक्तच्छेदकृशस्य अरुचिजनितभक्तभोजनाभावेन कृशस्य नरस्य वा योत्पन्ना, व्याधिभिरन्यैः क्षीणदेहस्य वा या समुत्पन्ना, वृद्धस्य नरस्य वा या समुत्पन्ना, या चाति व्यवायिनः समुत्पन्ना, सा तस्य जीवितमाशु हन्ति। यदुक्तं महाहिक्केति सा नृणां सद्यः प्राणहरा मता इति। तथा गम्भीरा नाम सा तस्य हिका प्राणान्तिकी मता इति यदुक्तं, तथाप्यासामिति वचनं सा व्यपेतेति विशे या हिक्का प्राणोपरोधिनीति प्राणोपरोधिनी न प्राणनाशिनी, तेन व्यपेता क्षदहिका तथानना त्रिधातिसम्भुक्तजा अतिमदकरमद्यपानना अतिरोषादितोऽन्नपानप्रपीड़नजा चेति पश्चानामभिप्रायेणेति। यत् तु व्याख्यायते। महाहिकादीनामसाध्यत्वेऽपि पुनरिहासामिति वचनेन तत्मायिकत्वं ख्यापितम्। जतूकर्णवचनं हि दृश्यते आधे दुःसाध्ये यमिका मोहतृष्णावतः सद्यःमाणहदिति। तत्राद्य दुःसाध्ये इति स्वरूपतो दुःसाध्यत्वेऽपि प्रायिकत्वं वाच्यमन्यथा चरकवचनविरोधः स्यादव्यभिचारण दुःसाध्यत्वे इति। यमिका च व्यपेतेति या तूक्ता सा प्रलापादियुक्ता आशु
चक्रपाणिः-अतीत्यादिना साध्यासाध्यविभागमाह। अतिशयेन सञ्चिता दोषा यस्य स तथा। भक्तच्छेदकृशस्येति अभोजनब्बलस्य। आसां पञ्चानां या हिक्का अतीत्यादिमा प्रोकलक्षणस्य पुरुषस्य भवति सा जीवितं हन्ति। यमिका चेत्यनेन क्षुद्रामजा साध्यत्वेनोक्ता। वेगेन जायमाना यमिका ज्ञया पूर्वोक्तानुवेगेन या जायमाना सा महाहिका, सा स्वरूपेणैव असाध्या, तस्या अतीत्यादियोगेन असाध्यताविधानम् अनर्थकम् । तथा महेत्यादिहिकानां तिसृणाम् असम्पूर्णलक्षणानाम् असाध्यत्वम् । क्षुद्रानजयोस्तु सम्पूर्ण लक्षणयोरपि असाध्यत्वम् । महाहिकादिवयं मिसर्गत एवासाध्यम्। अन्ये तु ब्रु वते महाहिक्कादयोऽपि कदाचित साध्या भवन्त्येव। वन प्राणान्तिकेति वचनात् तत् प्रायः प्राणहरा इत्यनेनोक्तम्। तथा जतूकणं आया
For Private and Personal Use Only