________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००८
चरक-संहिता। हिक्काश्वासचिकित्सितम् हृदयं क्लोम कण्ठश्च तालुकश्च समाश्रिता। मृद्रो सा क्षुद्रहिक्केति नृणां साध्या प्रकोर्तिता ॥ १० ॥
इति क्षुद्रहिका। सहसवातिसंभुक्तैः पानान्नैः पीड़ितोऽनिलः। ऊद्ध प्रपद्यते कोष्ठान्मदीर्वातिमदप्रदैः॥ तथातिरोषभाष्याध्व-हास्यभारातिवर्त्तनैः। वायुः कोष्ठं गतो धावन् पानभोज्यप्रपीड़ितः ॥ प्रकरोत्यनजां हिकामुरःस्रोतःसमाश्रितः। तथाशनैरसम्बन्धं चुवंश्चापि स हिकते॥ न मर्मबाधाजननी नेन्द्रियाणां प्रबाधिनी। हिका पीते तथा भुक्ते शमं याति तु सान्नजा ॥ ११॥
इत्यनजा हिका। तत एव कारणानिवर्तते। हृदयादिकं समाश्रिता सा मृद्वी हिक्का नृणां क्षुद्रहिक्के ति नाम साध्या कीर्तिता.॥१०॥ __गङ्गाधरः-अन्नजामाह-सहसेत्यादि। अतिसम्भुक्तैः पानान्नैः पीड़ितोऽनिलः सहसैव कोष्ठादृर्द्ध प्रपद्यते। अतिमदपदैर्मद्या पीड़ितोऽनिलः सहसैव कोष्ठा प्रपद्यते। तथा अतिरोषादिभिः पानभोज्यपपीड़ितः कोष्ठगतो वायुर्धावन् उरःस्रोतःसमाश्रितोऽननां हिक्कां प्रकरोति। तथा सोऽयं वायुरशनैरसम्बन्धं यथा स्यात् तथा क्षवन क्षवधु कुन्दन् हिक्कते। सेयं हिक्का न मर्मबाधाजननी न चेन्द्रियाणां प्रवाधिनी। तथा पीते भुक्ते च शर्म याति । सा हिकाऽनजा नाम ॥११॥
उत्पादकहेतोः व्यायामादेरेव निवर्तते, व्यायामादिना हिक्काजनकवातस्य क्षुद्रस्य विक्षेपात संप्राप्तिभङ्गेनेति भावः। क्षुद्रवातजनितत्वात् क्षुद्रा हिका ॥ १०॥
चक्रपाणिः-सहसेत्यादिना अवजामाह। इयञ्च यद्यपि दोषाभिभूतजाप्युक्ता, तथापि, दोषादिनितापि । पानाभोज्यप्रपीदिन इत्यनेनानस्य कारणत्वेनोत्तत्वात् अनजेयमिति संज्ञा ॥१॥
For Private and Personal Use Only