________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः
चिकित्सितस्थानम् । ३००७ प्रलापच्छतीसार-तृष्णातस्य विचेतसः। . जृम्भिणो विप्लुताक्षस्य शुष्कास्यस्य विनामिनः॥ पर्याध्मातस्य हिक्का या जत्रु मूलादसन्तता। सा व्यपेतेति विज्ञ या हिका प्राणोपरोधिनी ॥६॥
इति व्यपेता वा यमिका हिका। क्षुद्रवातो यदा कोष्ठाद व्यायामपरिघट्टितः। कण्ठं प्रपद्यते हिवां क्षुद्रां संजनयेत् तदा ॥ अतिदुःखा न सा नोरः-शिरोमर्मप्रवाधिनो। न च श्वासानपानानां मार्गमावृत्य तिष्ठति ॥ वृद्धिमायस्यतो याति भुक्तमात्रे च माईवम् ।
यतः प्रवर्त्तते पूर्व तत एव निवर्त्तते ॥ लभते, सा हिक्का व्यपेतोच्यते। इति निरुक्तिः। प्रलापाद्यार्तस्य विचेतसो जम्भिणो विप्लुताक्षस्य शुष्कास्यस्य विनामिनो नतगात्रस्य पर्याध्मातस्य प्रत्याध्मानवतश्च या हिक्का जत्रमलात क्लोमस्थानात प्रवत्तते न सन्तता वर्त्तते, सा हिका व्यपेतेति नाम, विशे या प्राणोपरोधिनी। (इति व्यपेतालक्षणम् ।) यमलवेगो बोध्यो यमिका च प्रलापार्तीति वक्ष्यमाणवचनेन शापनात् । तन्त्रान्तरे-चिरेण यमलेवेंगर्या हिका संप्रवर्त्तते। कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्देशेत् इत्युक्तेः॥९॥
गङ्गाधरः क्षुद्रहिकालक्षणमाह-क्षुद्रेत्यादि। यदा व्यायामपरिघट्टितः क्षुद्रवातः कोष्ठादुदरात् कण्ठं प्रपद्यते तदा क्षुद्रां हिक्कां संजनयेत्। सा हिक्का नातिदुःखा न चोर शिरोमर्म प्रवाधिनी न च श्वासादिमार्गमावृत्य तिष्ठति । आयस्यतो वृद्धिं याति भुक्तमात्रे माईवं याति। यतः पूर्व प्रवर्तते आहारेऽपि उत्पद्यत अन्ते बलवती भवति, सा व्यपेता इति संज्ञया दर्शयति। विनामिन इति शरीरविनामकस्य। असन्ततेति अनतिदीर्घा ॥९॥ .
चक्रपाणिः क्षुद्रेत्यादिना क्षुद्रहिक्कामाह। क्षुद्रवातोऽल्पवातः । केचित् क्षुद्रवातमुदानमाहुः। आयस्यत इति आयासं कुर्वतः, माईवं यातीति सम्बन्धः। यतः प्रवर्तते पूर्व तत एवं निवर्तते इति उत्पद्यमानैव निवर्तमानवेगा भवति, महाहिकादिवत् अनुबन्धा न भवति
For Private and Personal Use Only