________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००६
चरक-संहिता। हिक्काश्वासञ्चिकित्सितम् हिकते यः प्रवृद्धन्तु कृशो दीनमना नरः। जजरेणोरसा कृच्छ्रे गम्भीरमनु नादयन् ॥ संक्षिपन जृम्भमाणश्च तथाङ्गानि प्रसारयन् । पार्वे चोभे समायम्य कूजस्तम्भरुगर्दितः ॥ नाभेः पक्वाशयाद वापि हिका चास्योपजायते। क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः ॥ रुणद्धाच्छासमार्गन्तु प्रनष्टबलचेतसः। गम्भीरा नाम सा तस्य हिका प्राणान्तिकी मता ॥८॥
इति गम्भीरा हिक्का । व्यपेता जायते हिक्का यानपाने चतुर्विधे।
आहारपरिणामान्ते भूयश्च लभते बलम् ॥ , गङ्गाधरः-गम्भीरालक्षणमाह-हिकते इत्यादि। यस्तु नरः कृशो दीनमना जज्जैरेण उरसा विशिष्टः सन कृच्छ यथा स्यात् तथा गम्भीरं नादमनु नादयन् सन् तथाङ्गानि भूमौ संक्षिपन् प्रसारयंश्च जम्भमाणश्च उभे पाच समायम्य दीर्घाकृत्य कूजरतम्भरुगतिश्च श्वासाविरोधकारिणी न तु प्राणनाशिनी प्रवृद्धं यथा स्यात् तथा हिक्कते। हिक्क कूजनेऽनुदात्तेझ्वादिः धातुः । अस्य खल्वेवम्भूतं हिकमानस्य नाभेः प्रवर्त्तमाना हिक्का पकाशयाद्वापि प्रवर्तमाना हिकोपजायते। पूर्वमुक्तं पित्तस्थानसमुद्भवाविति प्रायिकखात् पकाशयमवृत्तावपि न दोषः। एवं नाभेः पकाशयाद्वोपजातास्य हिका ताम्यतो ग्लानिमतोऽस्य देहं भृशं क्षोभयन्ती सञ्चालयन्ती तथा नामयन्तीव नतं देह कुवेतीव प्रनष्टबलचेतसोऽस्य उच्छासमाग रुणद्धि। सेयं गम्भीरा नाम हिका, तस्य नरस्य प्राणान्तिकी प्राणान्तकृन्मता ॥८॥
गङ्गाधरः-क्रमिकलाप्रपेतामाह-व्यपेतेत्यादि। या हिक्का चतुर्विधे. अपानेऽशितखादितलीढ़पीते जायते, आहारपरिणामान्ते व्यपगते भूयो बलञ्च
चक्रपाणिः-तत्र हिगिति कायति शब्दं करोतीति हिका। गम्भीरमनुनादयन् इति हिकाया अनु गम्भीरं शब्दं कुर्वन् । संधि पन् भङ्गमिति योज्यम् । गम्भीरदेशभवत्वात् गम्भीरेति संज्ञा ॥४॥
पाणिज्यपेता परिणता इत्यर्थः। आहारपरिणामान्त इति आहारपरिणामे वृत्त, एतेन
For Private and Personal Use Only