________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७श अध्यायः] चिकित्सितस्थानम् । ३००५
क्षीणमांसबलप्राण-तेजसः सकफोऽनिलः। गृहीत्वा सहसा कण्ठमुच्चै?षवती भृशम् । करोति सततं हिकां द्विस्त्रिरेकगुणां तथा ® ॥ प्राणस्रोतांसि मर्माणि संरुध्योष्माणमेव च । संज्ञां मुष्णाति गात्रेषु स्तम्भं संजनयत्यपि । मार्गञ्चैवान्नपानानां रुणद्धापहतस्मृतः॥ सानु विप्लुतनेत्रस्य स्तब्धशङ्खच्युत वः। सक्तजल्पप्रलापस्य निवृत्तिं नाधिगच्छतः॥ महाशब्दा महावेगा महातेजा + महाबला। महाहिक्केति सा नणां सद्यः प्राणहरा मता ॥७॥
इति महाहिका। गङ्गाधरः-क्षीणेत्यादि महाहिकालिङ्गम्। तेजः शरीरप्रभावः। क्षीण मांसादेः पुसः सकफोऽनिल उदानः सहसा कण्ठं गृहीखा सततमविच्छेदेन भृशमत्यथमुच्चघोषवती हिकां हिगिति शब्दं कृखा कायति या रुक तां करोति । एकगुणां कस्यचित् कस्यचिद् द्विर्द्विगुणां त्रिस्त्रिगुणां तथा कस्यचित् । गुणा महावेगतेजोबलानि तेषां गुणानामन्यतमैकद्वित्रिगुणामिति । तथा प्राणस्य स्रोतांसि मर्माणि हृदयादीनि उष्माणञ्च संरुध्य संशां मुष्णाति लोपयति, गात्रेषु स्तम्भमपि जनयति। अस्य हि किन उपहतस्मृतेः साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खस्य च्युतभ्रवः सक्तजल्पप्रलापस्य अव्यक्तजल्पस्याव्यक्तानर्थक बचनस्य हिकायाः सातत्यानिवृत्तिं नाधिगच्छतो नरस्यानपानानां गमनमागेञ्चैव रुणद्धि। एतादृशस्य नरस्यैषा महाशब्दा महावेगा महातेजा महावीर्या महाबला यस्मात् तस्मान्महाहिकति मता। नणां सद्यः प्राणहरा ॥७॥
चक्रपाणि:-क्षीणमांसबलप्राणतेजस इति । अनुप्राणो वायुः उत्साहो वा, तेजोऽग्निः । उच्चैः गृहीत्वा घोषवतीमिति योज्यम् । द्विसन्ततां विसन्तताम् अनेकगुणां वा करोति । तत्र द्विसन्तता एकोपक्रमे वारद्वयं भवति । संरुध्यामाणमिति देहोष्माणम्। संसक्तवचनतया प्रलापो यस्य स सक्तवाक्प्रलापः । महामूलेति महाबलगम्भीराश्रयदोषमूला । महाशब्दत्वच उच्चै?षवतीमित्यनेन एवोक्तमपि महाहिकासंज्ञोपादानार्थम् इह पुनरुक्तिः । तेन महाहिकति संज्ञा ॥७॥ •-हिको तथैकद्वितिसन्तताम् इति चक्रः ।
+ महामूळेति च।
For Private and Personal Use Only