SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri ka Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org श अध्यायः चिकित्सितस्थानम्। २९४७ रुक्षशीतगुरुस्वादु-व्यायामैवेगनिग्रहः । कफसंमूर्च्छितो वायुः स्थानात् पित्तं क्षिपेद् बलो॥ हारिद्रनेत्रमूत्रत्वक श्वेतवर्चास्तदा नरः। भवेत् साटोपविष्टम्भो गुरुणा हृदयेन च॥ दौर्बल्याल्पाग्निपार्धाति-हिकाकासारुचिच्चरैः। क्रमेणाल्पेन सज्येत पित्ते शाखासमाश्रिते ॥ ४३ ॥ वहितित्तिरिदक्षाणां रुक्षाम्लकटुकै रसैः। शुष्कमूलककौलत्थैर्यषश्चान्नानि भोजयेत् ॥ मातुलुङ्गरसं नौद्र-पिप्पलीमरिचान्वितम् । सनागरं पिबेत् पित्तं तथास्यति स्वमाशयम् ॥ ४४ ॥ गङ्गाधरः-कोष्ठाश्रयकामलाचिकित्सामुक्त्वा कामलायाः शाखाश्रयायाः सलिङ्गचिकित्सामाह-रुक्षेत्यादि। कामलायां रुक्षादिसेवनेन वायुः कफसंमूर्छितः सन् बली स्थानात् पित्तं क्षिपेत्। तेन शाखारक्तादिधातु. समाश्रिते पित्ते कामली नरो हारिद्रनेत्रादिर्भवेत्, तदा श्वेतवर्चाः साटोपविष्टम्भश्च सन् गुरुणा हृदयेन दोब्बल्यादिभिश्च क्रमेणाल्पेन सज्येत सक्तो भवति । इति शाखाश्रयकामलालिङ्गम् ॥४३॥ गङ्गाधरः-तदवस्थान्वितं तं कामलिनं वादीनां मांसानां रुक्षादिभी रसैः शुष्कमूलकादिभियुषैश्चान्नानि भोजयेत्। क्षौद्रत्रिकटुचूर्णसहितं मातुलुङ्गरसं पिबेत् । तथा तेन प्रकारेणान्नभोजनेन मातुलुङ्गरसपानेन चास्य कामलिनः स्थानात् क्षिप्तं रक्तादिशाखागतं पित्तं स्वमाशयमेति याति ॥४४॥ चक्रपाणिः-एतदेव रुक्षेत्यादिना विस्तरेणाह। श्वेतवर्चा इति कोष्ठस्य पित्तस्य मलरक्षकस्य बहिनिर्गमात् घृढेन श्लेप्मणा श्वेतवर्चा भवति। क्रमेणाल्पेनेति ज्वरान्तैरनुषज्यते। पिते शाखाश्रित इति सम्बन्धः ॥ ४३ ॥ चक्रपाणिः-वीत्यादिना कफहरं पित्तवृद्धिकरञ्च समं चिकित्सितं प्राह। यतः शाखायदोषस्य वृद्धिः कोष्ठानयनार्थम् । उक्त हि "वृद्धयाभिष्यन्दनात् पाकात स्त्रोतोमुखविशोधनात् । शाखा मुक्तवा मलाः कोष्ठं यान्ति वायोश्च निग्रहात्" ॥४४॥ ३७६ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy