________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६६
चरक-संहिता। पाण्डुरोगचिकित्सितम् मृदुभक्षणादातुरस्य लोल्यादविनिवर्तिनः। द्वेषार्थे भावितां कामं दद्यात् तदोषनाशनैः॥ विगलातिविषया निम्बपत्रेण पाठया। वार्ताकः कटुरोहिण्या कौट मूवयापि वा ॥ यथादोषं प्रकुर्वीत भेषजं पाण्डुरोगिणाम् । क्रियाविशेष एषोऽस्य मतो हेतुविशेषतः ॥४१॥ तिलपिष्टनिभं यस्तु कामलावान् सृजेन्मलम् । श्लेष्मणा रुद्धमार्ग तं कफपित्तहरैर्जयेत् ॥ ४२ ॥
साधयिखा घृतं तद्वत पिबेत्। शाद्वलः सादहरिते देशे वत्तेते, तेन यत्र भूमा सादाख्यं नवतृणं जातं वत्तेते तत्वणस्थानमृत्तिका शादल इह ग्राह्यः॥४०॥
गङ्गाधरः-मृदित्यादि। यो मुद्भक्षणजपाण्डुरोगी लोल्याल्लोभात् मृद्भक्षणान विनिवर्तते, तस्यानिवतिनो मृद्भक्षणे द्वेषार्थ मुद्दोषनाशनर्विकादिभिनिम्बपत्रण पाठया वात्तोकः कटुरोहिण्या कोटजेरिन्द्रयवैमू व्या वा कथितया भावितां तां मृत्तिकां कामं यथाकामं खादितु दद्यात्। एवं यथादोषं कषायादिमृद्भक्षणन कुपितवातादिदोषहरं भेषजं मृद्भक्षणजपाण्डुरोगिणां कुर्वीत। हेतुविशेषतः क्रियाविशेषोऽस्य मृद्भक्षणजपाण्डुरोगस्य मतः॥४१॥
गङ्गाधरः-कामलाविशेषचिकित्सितमाह-तिलेत्यादि। यस्तु कामलावान् तिलपिष्टनिभं मलं पुरीषं सृजेत्, तं श्लेष्मणा रुद्धमार्ग कफपित्तहरदेव्यः जयेत् ॥४२॥
चक्रपाणिः-मृदभक्षणादविनिवर्तिनः सक्तस्येत्यर्थः। भावितामिति तहोषनाशनः दर: संकताम् । मूया पिबेदित्यन्तो ग्रन्थः पूर्वेण सम्बध्यते। पाण्डुरोगोक्तं दोषविशेषचिकित्सितं मृजेऽप्यतिदिशति-यथादोषमित्यादि। एष इति मृजे पाण्डुरोगे प्रोक्तः ॥४१॥
चक्रपाणिः-तिलपिष्टनिमित्यादिना शाखाश्रयकामलाचिकित्सितं लक्षणपूर्वकमाह । इलेष्मणा रुद्धमार्गमिति कोष्ठस्थेन श्लेष्मणा शाखाअयि पित्तं कामलाजनकं रुद्धमार्ग कोष्ठगमनार्थ निषिद्धमार्गमिति यावत् ॥ ४२ ॥
For Private and Personal Use Only