SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९४८ चरक-संहिता। (पाण्डुरोगचिकित्सितम् कटुतीक्ष्णैस्तु लवणे योऽम्लैश्चाप्युपक्रमः। आ पित्तरोगाच्च कृतो वायोश्चा प्रशमाद् भवेत् ॥ स्वस्थानमागते पित्ते मले पित्तानुरञ्जिते।। निवृत्तोपद्रवस्यास्य पूर्व कामलिको विधिः ॥ ४५ ॥ यदा तु पाण्डोवर्णः स्याद्धरितः श्यावपीतकः। बलोत्साहक्षयस्तन्द्रा मन्दाग्नित्वं मृदुज्वरः ।। स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासस्तृष्णारुचिर्भमः। हलीमकं तदा तस्य विद्यादनिलपित्ततः ॥ ४६ ॥ गङ्गाधरः-ततोऽपरमुपक्रममाह-कदित्यादि। तत आ पित्तरोगात् उक्तहारिद्रनेत्रबादिरोगसद्भावपर्यन्तं वायोरप्या प्रशमात् प्रशमपर्यन्तं कदादिभिः भूय उपक्रम आरम्भः कृतो भवेत्। एवमेव स्वस्थानमागते पित्ते पित्तानुरजिते मले पुरीषे सति शाखा निवृत्तोपद्रवस्य हारिद्रनेत्रवादिनिवृत्तौ चास्य पूर्वः कामलिको विधिः काय्यः॥४५॥ गङ्गाधरः-यथा पाण्डुरोगस्यावस्थाविशेषः कामला तथऽपरश्वाहयदा खित्यादि। यदा खनिलपित्तकरापचारविशेषात् पाण्डोः पुरुषस्य वर्णो हरितादिः स्याद् बलादिक्षयादयश्च स्युः, तदा तस्य तं हलीमकमनिलपित्ततो विद्यात् ॥४६॥ चक्रपाणिः-आ पित्तरोगात् यावत् कोष्टमार्गस्य मलं न वर्द्रते तावदरक्तपित्तवर्द्धनम् । पूर्व इति पूर्वोक्तः। कालिको विधिरिति कोष्ठाश्रयाकामलाचिकित्सितं कत्र्तव्यमित्यर्थः ॥४५॥ चक्रपाणिा-यदेत्यादिना हलीमकमाह। अयमेव तन्त्रान्तरे लाघरसंज्ञया अलस उच्यते, उक्तं हि सुश्रुते "ज्वराङ्गमईभ्रमदाहतन्द्रा-क्षयान्वितो लाघरिकोऽलसश्च। तं वातपित्ताभिपरीतलिङ्ग हलीमकं कचिदुदाहरन्ति ।" यच्चापि तत्र भिन्नवर्चस्त्वं सा चापि कामलावस्थैव न पृथगुक्तम् । उक्तं हि तन्त्रान्तरे-"सन्तापो भिन्नवर्चस्त्वं बहिरन्ते च पीनता। पाण्डुता नेसरागश्च पल्लकीलक्षणं (?) मतम्" ॥ ४६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy