________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६०
चरक-संहिता। पाण्डुरोगाचकित्सितम् कुष्ठान्यजरक मेहं श्वासं हिकामरोचकम् । विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च ॥ २६ ॥
योगराजः। कौटजत्रिफलानिम्ब-पटोलघननागरः। भावितानि दशाहानि रसै ित्रिगुणानि च ॥ शिलाजतुपलान्यष्टौ तावती सितशर्करा। त्वकक्षीरीपिप्पलीधात्री-कटुकाख्याः पलोन्मिताः॥ निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिगन्धकम् । मधुत्रिपलसंयुक्तं कुर्य्यादक्षसमान् गुड़ान् ॥
डिमाम्बुपयापक्षि-रसतोयसुरासवान् । तान् भवयित्वानुपिबेनिरन्नोऽभुक्त एव वा ॥ पाण्डुकुष्ठज्वरप्लीह-तमकार्थीभगन्दरान् ।
पूतिहृच्छकमूत्राग्नि-दोषशोथगरोदरान् ॥ आयसे भाजने स्थाप्यं, तप्त उडुम्बरसमां मात्रां यथाग्नि ना खादत् । योगराजः ॥२९॥
गङ्गाधरः-कोटजेत्यादि । कौटजं फलम् । कोटजादीनां काथैदशाहान्यथवा विंशतिदिनान्यथवा त्रिंशदिनानि भावितानि, शिलाजतुनः पलान्यष्टौ, सितशर्करा तावती अष्टौ पलानि, खकक्षीरीप्रभृतीनां प्रत्येकं पलं, कटका रोहिणी, निदिग्ध्याः कण्टकार्योः फलं मूलश्च पलम् । त्रिसुगन्धकं युक्त्या प्रत्येकं कर्षमानं, मधुनः पलत्रयम्, एतत् सर्वमेकीकृत्याक्षसमान् गुडान् पञ्च रूप्यमलस्य चेति पाठे रूप्यमलस्येति शिलाजतुविशेषणं, तेन रूप्यमलरूपं यदुक्तं शिलाजतु राजतं कटुकं श्वेतमित्यादि तदिह गृह्यते ॥ २८ ॥ २९ ॥
चक्रपाणिः-भावितानीति द्विगुणत्रिगुणदशाहानि भावितानि। रसैरिति कुटजादिकाथैः । कौटजं कुटजफलम् । अव भावना शिलाजतूक्तेनैव विधिना कर्तव्या। काथ्यकाथमाने च तन्त्रान्तरे "तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधं काथ्यम् । ततः काथे पादांशे पूतोष्णे प्रक्षिपेद गिरिजं। तत्समरसतां यातं संशुष्कं प्रक्षिपेत् रसे भूयः" इति। एवञ्च अन्यत्रापि भावनाविधौ काध्यक्वाथमानौ ज्ञेयौ। फलमूलाभ्यां पलमिति मिलित्वा पलम् । युत्तया
For Private and Personal Use Only