________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३ मण्यायः] चिकित्सितस्थानम् ।
२६ गुड़नागरमण्डूर-तिनिशान् मानतः समान् । पिप्पली द्विगुणां दद्याद गुड़िकां पाण्डुरोगिणे ॥ २८॥ त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च । भागश्चित्रकमूलस्य विङ्गानां तथैव च ॥ पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च। माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा ॥ अष्टौ भागाः सितायाश्च तत् सव्व सूक्ष्मचूर्णितम् । माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे॥ उडुम्बरसमां मात्रां ततः खादेद् यथाग्नि ना। दिने दिने प्रयोगेण जीणे भोज्यं यथेप्सितम् ॥ वजयित्वा कुलत्थांश्च काकमाची कपोतकान् । योगराज इति ख्यातो योगोऽयममृतोपमः॥ रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम् । पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम् ॥
गङ्गाधरः-गुड़ेत्यादि। गुड़ादीन् चतुरः समभागान् पिप्पली सव्वेषां द्विगुणां, गुड़िकां कृता पाण्डुरोगिणे दद्यात् ।। २८॥
गङ्गाधरः-त्रिफलाया इत्यादि। त्रिफलायाः प्रत्येकमेकभाग इति मिलि. सायास्त्रयो भागाः, एवं त्रिकटकस्य च मिलितस्य त्रयो भागाः। एवमेको भागश्चित्रकस्य । विहानामेको भागः। अश्मजतुनः शिलाजतुनः पञ्च भागाः। रूप्यमलस्य वह्नौ ध्मातस्य रूप्यस्य यन्मलं नियति तस्य पञ्च भागाः। शुद्धस्य धातुमाक्षिकस्य पञ्च भागाः। लौहस्य मारितपुटितस्य पञ्च भागाः। सिताया अष्टौ भागाः। सर्व तत् सूक्ष्मचूर्ण कृता माक्षिकेण मधुना गोलयिता शुभ
पक्रपाणिः-त्रिफलाया इत्यादौ रूपयमलं रूप्यस्य यत् कि भवति तजज्ञेयम् । माक्षिकस्येति माक्षिकधातोः। अश्मजस्वादीनां चतुर्णा पञ्च भागाः प्रत्येकम् । किंवा पञ्चाश्मजतुनो भागाः
For Private and Personal Use Only