________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
चरक-संहिता। पाण्डुरोगचिकित्सितम् त्रिफलां त्रूषणं मूस्तं विडङ्ग चव्यचित्रको। दार्ची त्वङ् माक्षिको धातुम्रन्थिको देवदारु च ॥ एषां द्विपलिकान् भागांश्चूणं कुर्यात् पृथक् पृथक् मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम् । गोमूत्रेऽष्टगुणे पक्त्वा तच्चूर्ण प्रक्षिपेत् पुनः। उडुम्बरसमान् कुर्यात् वटकांस्तान यथाग्निना ॥ उपयुञ्जीत तक्रण जीणे सात्म्यञ्च भोजनम् । मण्डूरवटका ह्य ते प्राणदाः पाण्डुरोगिणाम् ॥ कुष्ठान्यजरकं शोथमूरुस्तम्भं कफामयान् । अशंसि कामलां मेहं नोहानं शमयन्ति च ॥ २७ ॥
मण्डूरवटकाः । गङ्गाधरः-त्रिफलामित्यादि। माक्षिको धातुः स्वर्णमाक्षिकं किञ्चित्सम्धवयुक्तं जम्बीररसेन पेषयिखा लोहकटोरिकायां कुखाग्निना पचेत् । शुष्कं नीलपीतादिनानावर्ण प्रज्वलितं यावद् भवेत् तावत् पक्त्वा रक्तामं यदा स्यात् तदावहृत्य चूर्णयिखा ग्राह्यम् । मण्डूरं गोमूत्रेऽनौ दग्ध्वा दग्ध्वा निप्यि संशोष्य चूर्णीकृत्याञ्जनसन्निभं कजलाभ ग्राह्यम्, तन्मण्डूरं सर्चचूर्णाद द्विगुणं चर्णसहितमण्डूरादष्टगुणे गोमूत्रे मण्डूरचूर्ण पक्त्वा किश्चिद द्रवे सति त्रिफलादि तचूर्ण प्रक्षिपेत् । सर्वमेकीभूतम् उडुम्बरसमान् कोलममान् वठकाम् कुर्यात् । तान् यथामिबलं तक्रेण गोलयिखोपयुञ्जीत। जीणे तस्मिन् उपयुक्त औषधे सात्म्यञ्च भोजनं तऋण उपयुञ्जीत। मण्डूरवटकः ॥२७॥ चक्रपाणिः-मण्डूरं पुराणं लोहकिट्टम् ॥ २७ ॥
• इतः परमित्यधिकः पाठः क्वचिद् दृश्यते। स यथा"ताप्यानिजतुरूप्यायो-मलाः पञ्चपलाः पृथक् । चित्रकतिफलाव्योष-विडङ्गः पालिकैः सह ॥
शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुनाप्लुताः। अभ्यस्यास्त्वक्षमासा हि जीर्णे नियमिताशिना । . कुसस्थकामाच्यादि-कपोतपरिहारिणा ॥"
For Private and Personal Use Only