________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः चिकित्सितस्थानम्।
२९८७ स्वर्णक्षीरी त्रिवृच्छामा भद्रदारु सनागरम् । गोमूत्राञ्जलिना कल्कं मूत्रे वा कथितं पिबेत् । दीरमेभिः शृतं वापि पिबेद दोषानुलोमनम् ॥ २४ ॥ हरीतकी मूत्रयुतां प्रयोगेणाथ वा पिबेत् । जीणे क्षीरेण भुञ्जीत मधुरेण रसेन वा॥ सप्तरात्रं गवां मूत्रे भावितं वाप्ययोरजः। पाण्डुरोगप्रशान्त्यर्थं पयसा पाययेद् भिषक् ॥ २५ ॥ वाषणत्रिफलामुस्त-विडङ्गचित्रकाः समाः। नवायोरजसो भागास्तच्चूर्ण मधुसर्पिषा। भक्षयेत् पाण्डुहृद्रोग-कुष्ठाश कामलापहम् ॥ २६ ॥
नवायसं चणम्। गङ्गाधरः-स्वर्णक्षीरीत्यादि। स्वर्णक्षीरी स्वर्णवणनिर्यासवृक्षविशेषः । श्यामा श्याममूला त्रिवत् । भद्रदारु देवदारु। एषां कल्कं गोमूत्राञ्जलिना चतुःपलन पिबेत् । मूत्रेऽष्टगुणे कथितं वा स्वर्णक्षीर्यादिकं पिबेत् । एभिः स्वर्णक्षीर्यादिभिः शृतं वा क्षीरं दोषानुलोमनं पिबेत् ॥२४॥
गङ्गाधरः-हरीतकीमित्यादि। हरीतकी मूत्रयुतां प्रयोगेण वा पिबेत् । जीर्णे तन्मूत्रयुक्तहरीतकीपयोगे क्षीरेण भुञ्जीताथवा मधुरेण मांसरसेन भुञ्जीत। सप्तेत्यादि। गवां मूत्रे सप्तरात्रं भावितमयसो जारितमारितं रजः पयसा मात्रया पाययेत् ॥२५॥
गङ्गाधरः-अषणेत्यादि । ऋषणादयो नव समाः। मारितस्यायसो रजसो नव भागा एकीकृतं तचूर्ण मधुसर्पिषा भक्षयेत् । नवायसचूर्णम् ॥ २६ ॥
चक्रपाणिः-नवायोरजसो भाग इति एकभागापेक्षया नवगुणत्वमयोरजसः, तेन त्रूपणा. दीनां मिलितानां चूर्णन सममयोरजः ॥ २४–२६ ॥
. इतः परं केचित् "नवायसमिदं चूर्ण कृष्णात्रेयेण भाषितम् श्लोकाईमिदमधिकं पठन्ति ।
For Private and Personal Use Only