________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८६
चरक-संहिता। (पाण्डुरोगचिकित्सितम् पिबेद् वा कामलावान् ना त्रिवृतां त्रिफलारसः । विशालात्रिफलामुस्त-कुष्ठदारुकलिङ्गकान् ॥ कर्पोन्मितानतिविषां कर्षा ञ्च प्रदापयेत् । कर्षों मधुरसाया द्वौ सर्वमेतत् सुखाम्बुना ॥ मृदितं तं रसं पूतं पोत्वा लिह्याच माक्षिकम् । कासं श्वासं ज्वरं दाहं पाण्डुरोगमरोचकम् । गुल्मानाहामवातांश्च रक्तपित्तश्च नाशयेत् ॥ २२ ॥ त्रिफलाया गुडूच्या वा दाा निम्बस्य वा रसः। प्रातःप्रातमधुयुतः शीलितः कामलापहः ॥ क्षोरं मूत्रं पिबेत् पदं गव्यं माहिषमेव वा। पाण्डुर्गोमूत्रयुक्तं वा सप्ताहं त्रिफलारसम् ॥ तरुजान ज्वलितान् मूत्रे निर्वाप्यामृद्य चाङ्क रान् । मातुलुङ्गस्य तत् पूतं पाण्डुशोथहरं पिबेत् ॥ २३ ॥ गङ्गाधरः-कामलावान् ना त्रिफलारसैविकृतां वा पिबेत् । विशालेत्यादि। विशालामूलादीन् प्रत्येकं कर्पोन्मितान् कां मतिविषां मधुरसाया मूव्वोया द्वौ कौ समेतत् कुट्टयिखा षड़गुणेन मुखाम्बुना मृदितं पूतं तं रसं फाण्टाख्यं कोष्ठाद्यपेक्षया पीला माक्षिकं लियात्। आमवातं तन्त्रान्तरे द्रष्टव्यम् ॥२२॥ । गङ्गाधरः-त्रिफलाया इत्यादि। त्रिफलाया मिलितायाः। एकयोगः। शेषास्त्रयो योगाः। क्षीरमित्यादि। गव्यं क्षीरं मूत्रं माहिषमेव वा क्षीरं मूत्रं पाण्डुनरः पक्षं पिबेत् । गोमूत्रयुक्तं त्रिफलारसं वा पाण्डुर्नरः सप्ताह पिबेत्। तरुजानित्यादि। मातुलुङ्गस्य तरुजान् अङ्क रान् दहने ज्वलितान् मूत्रे निर्वाप्य आमृय च तत् पूतं पाण्डुशोथहरं पिबेत् ॥२३॥
पिवेदिति योजयन्ति। आरम्वधं सत्रिकटुकं रसेनेक्षोः विदा- आमलकस्य रसेन पिदिति भपरोऽर्थः। विशालेल्यादौ फाण्टकषायवद् द्रध्यात् पलमानात् चतुःपलं द्रवं वदन्ति वृद्धाः ॥२१-२३॥
For Private and Personal Use Only