SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८० चरक-संहिता। पाण्डुरोगचिकित्सितम् बद्धाल्पविट् सहरितं सकर्फ योऽतिसार्य्यते। दीनः श्वेतातिदिग्धाङ्गश्चर्दिमूर्छातृडन्वितः ॥ स नारत्वस्मृक्क्षयाद् यश्च पाण्डुः श्वेतत्वमाप्नुयात् । इति पञ्चविधस्योक्तं पाण्डुरोगस्य लक्षणम् ॥ ११ ॥ पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते। तस्य पित्तममृङमांस दग्ध्वा रोगाय कल्पते ॥ हारिद्रनेत्रः सुभृशं हारिद्रत्वनखाननः । रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः॥ दाहाविपाकदौर्बल्य-सदनारुचिकर्षितः । कामला बहुपित्तैषा कोष्ठशाखाश्रया मता ॥ बाल्पेत्यादि। यः सहरितं पालाशवर्णयुक्तं सकर्फ बद्धमथ चाल्पं विट आसार्यते, दीनो दन्यापन्नः श्वेतवर्णनातिदिग्धाङ्गो भवति तृडाधर्दितश्च भवा त, स पाण्डुरोगी नास्ति म्रियते। यश्च पाण्डुरसृक्षयात् श्वेतवमाप्नुयात् तत्पाण्डुरोगी नास्ति । इति पञ्चविधस्य पाण्डुरोगस्य लक्षणमुक्तं भवति ॥११॥ गङ्गाधरः-पाण्डुरोगस्यावस्थान्तरे संज्ञान्तरमाह-पाण्डुरोगीत्यादि। यः पाण्डुरोगी पित्तलानि द्रव्याण्यत्यर्थं निषेवते, तस्य पुनर्टद्धं पित्तममृङमांसं दग्ध्वा कामलाख्यरोगाय कल्पते । निदानार्थकरोऽयं पाण्डुरोगोभवति । तस्य लक्षणं हारिद्रेत्यादि। सुभृशमतिशयेन हारिद्रनेत्रः। भेकवर्णों वार्षिकमेकवणवद्धारिद्रवर्णः, हतेन्द्रिय इन्द्रियशक्तिरहितः। एषा कामला बहुपित्ता कोष्ठशाखाश्रया कोष्ठमामाशयादि, शाखा रक्तादयो धातवस्तदुभयाश्रया .... चक्रपाणिः-पाण्डुरोग इत्यादिना असाध्यलक्षणमाह। खरीभूत इति अत्यर्थरुक्षः। कालेल्यादिमा अपरमसाध्यलक्षणम्। श्वेतानुदिग्धाङ्ग इति श्वेतवर्णलिप्ताङ्ग इत्यर्थः ॥ ११ ॥ चक्रपाणिः-पाण्डुरोगी यादिना कामलामाह। पाण्डुरोगीति वचनात् पाण्डुरोगस्यैव हेतुविशेषेण कामलादिरूपावस्था उत्पद्यते। अत एव च हारीतेऽपि कामलादीनामपि पाण्डरोगत्वमेधोक्तम् । पचनं हि-"वातेन पित्तन कफेन चैव त्रिदोषमृद्भक्षणसंभवन्ति। द्वे कामले चंच हलीमकश्च इत्यष्टधैव .... पाण्डुरोगः।" अन्या तु सुश्रुतोक्ता कामला भिन्ना भवति "यो झामयान्ते सहसाम्लमन्नमयादपथ्यान्यपि तस्य पित्तम् । करोति पाण्डु वदनं विशेषात् For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy