________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
:१६श अध्यायः
चिकित्सितस्थानम् । २६८१ कालान्तरात् खरीभूता कृच्छा स्यात् कुम्भकामला। कृष्णमूत्रशकुन्नेत्रो भृशं शूनश्च मानवः॥ सरक्ताक्षिमुखच्छईि-विणमूत्रो यश्च ताम्यति । दाहारुचितड़ानाह-तन्द्रामोहसमन्वितः॥ नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान् विपद्यते ॥१२॥ साध्यानामितरेषाञ्च प्रवक्ष्यामि चिकित्सितम्। तत्र पाण्डामयी स्निग्ध-तोक्षणार्धानुलोमिकैः। :
शोध्यः स्यान्मृदुभिस्तिक्तः कामलावान् विरेचनैः॥ मता। तस्याः कोष्ठाश्रयत्वे कुम्भकामलासंज्ञा, तस्याः कृच्छसाध्यतामाह-कालान्तरादित्यादि। कालाधिक्ये कोष्ठाश्रया कुम्भकामला यदि खरीभवति तदा कृच्छा स्यात् । सर्वकामलानामसाध्यतामाह-कृष्णेत्यादि। अक्ष्णोमुखस्य छद्देश्च विण्मूत्रयोश्च सरक्तत्वं यस्य सः। ईदृशः कामलावान् विपद्यते म्रियते। इति पाण्डुरोगनिदानम् ॥१२॥
गङ्गाधरः-अतः परमाह-साध्यानामित्यादि। उक्तासाध्यलक्षणपाण्डुकामलारोगादितरेषां कृच्छाणां पाण्डुरोगाणां साध्यानाञ्च चिकित्सितं प्रवक्ष्यामि। चिकित्सामाह - तत्रेत्यादि। तत्र साध्यपाण्डामयी स्निग्धतीक्ष्णैर्दानुलोमिकैः वमनविरेचनैः शोध्यः स्यात् । कामलावांस्तु मृदुभिः पूर्वरितौ तन्द्रिबलक्षयौ च।" इत्यादिना पृथक् कामलाहेतुरुक्तः । वागभटेऽपि “भवेत् पित्तोल्वणस्यासौ पाण्डुरोगाहतेऽपि च"। इह तु पाण्डुरोगेऽपि भवेत् पाण्दुरोगाद्विनापि भवेत् । पथा प्रमेहाश्रिताः पिदकाः प्रमेहेषु भवन्ति विना प्रमेहमपि भवन्ति, तथा पाण्डुरोगिणोऽपि उक्ता कामला पृथमपि भवति । कोष्ठशाखाश्रया बहुपित्तात् पाण्डुरोगपूर्विका भवति। या तु केवलं शाखाश्रया ला अल्पपित्ता च वक्तव्या सा स्वतन्त्रापि भवतीति केचित् । अत एव तस्मा रुक्षशीतस्यादिना पृथगेव हेतु लिङ्गच अध्यायशेषे वक्ष्यति । बहुपित्तेत्यनेन केवलं शाखाश्रयाया अल्पपित्तत्वं सूचयति । अम्लकटुतीक्ष्णोपयोग शाखाश्रयिपित्तस्य बलेन कोष्ठानयमार्य वक्ष्यति । खरीमूतेति कठोरतामुपगता। कुम्भकामला अवस्थाभेदेन कोष्ठगकामलायाः संज्ञा। कुम्भः कोठः तदाश्रया कामला कुम्भकामला। अस्याञ्च शोथोपलक्षणं भवति। उक्तं हि सुश्रुते-भेदस्त तस्माः खलु कुम्भमाहुः स्रोतोमहांश्चापि स पर्वभेदः ॥ १२ ॥
चक्रपाणिः-तनेत्यादिना चिकित्सामाह। ऊर्वानुलोमिकैरिति अईहरानुलोमनवमनविरेचनयोरपि ग्रहणं युक्तम् । यतः पाण्डुरोगेऽपि “कफपाण्डौ तु गोमूख-विभयुक्तां हरीतकीम्"
३७४
For Private and Personal Use Only