________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः] चिकित्सितस्थानम्। २९७६
इन्द्रियाणां बलं हत्वा तेजो वाय्यौं जसी तथा। पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ॥
शूनाक्षिकूटगण्डभ्रः शूनपन्नाभिमेहनः । क्रिमिकोष्ठोऽतिसाव्येत मलं सासक कफान्वितम् ॥ १०॥ पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति'।
कालप्रकर्षाच्छ्नो ना यो वा पीतानि पश्यति ॥ कोपयेत् इति। सा सा च मृद्भक्षिता वातादीन कोपयेत् रसादीन् भुक्तञ्च रुक्षयेत् स्वयश्चाविपक व स्रोतांसि पूरयति निरुणद्धि च। इन्द्रियाणां बलं हवा तथा तेजो वीय्यौ जसी च हवा बलवर्णाग्निनाशनं पाण्डुरोगमाशु करोतीति। मृदः कत्त खवचनान तु कषायादिमृदा कुपितो वातायन्यतमः पाण्डुरोगं करोति। आगन्तुर्हि पूर्व जायते पश्चाद्दोषरनुबध्यते। तस्मात् कषायाद्यन्यतमया मृदोक्तरूपेण जनितं पाण्डुरोगमुत्तरकालं तत्तन्मदा कुपितो वातादिरनुबध्नातीति दोषजाद भेदः। यथा हि निरुक्तकारणात् कुपितो वातादिः पाण्डुरोगं करोति न तथा मृत्कुपितः। मृदेव वातादीन् कोपयिखा पाण्डुरोगं करोति, ततस्तत् पित्तवातादिरनुबध्नातीति। शूनाक्षीत्यादि। यस्य भक्षिता मृत् पाण्डुरोगं करोति स शूनाक्षिकूटादिः। शूने स्फीते अक्षिकूटे चक्षुगौलके गण्डे कपोले भ्रवौ च शूनौ शोफो यस्य सः। शूनानि पन्नाभिमेहनानि यस्य सः पदादयः पृथक्छब्दाः सन्ति। क्रिमिकोष्ठः सन्नसक्सहितं कफान्वितं मल मतिसार्येत । इति मृत्तिकाभक्षणजपाण्डुरोगलक्षणम् ॥१०॥
गङ्गाधरः-सर्वेषामसाध्यलक्षणमाह-पाण्डुरोग इत्यादि। चिरोत्पन्नो यदि खरीभवति रोक्ष्यात् कर्कशभावं गच्छति, तदा सर्च एव पाण्डुरोगो न सिध्यति। यो वा ना पुमान् कालप्रकर्षादधिककालखात् शूनः शोफवान् सन् सर्वाणि दृश्यानि पीतानि पश्यति, तस्य पाण्डुरोगो न सिध्यति ।
वातादिगतलिङ्गं दर्शयति । ऊपरेति सक्षारानुरसा। रसादींश्च भुक्तञ्च विस्क्ष्य इति योज्यम् । भविपक्वैवेति स्वरूपावस्थितैव केवलं स्रोतांसि पूरयति रुणद्धि च। स्रोतोविरोधेन रसादोमा म सम्यगबलं भवति तेन च बलवर्णाग्निनाशन इत्यनेन बलहानि दर्शयति ॥ १० ॥
For Private and Personal Use Only