________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७८
चरक-संहिता। पाण्डुरोगचिकित्सितम् सर्वान्नसेविनः सर्व-दोषा दुष्टास्त्रिदोषजम् । त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम् ॥६॥ मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः । कषाया मारुतं पित्तमूषरा मधुरा कफम् ॥ कोपयेन्मृटु रसादींश्च रौक्ष्याद भुक्तञ्च रुक्षयेत् ।
पूरयत्यविपक्क व स्रोतांसि निरुणापि ॥ दूषयिखा पाण्डुरोगं करोति। गौरवादिकञ्च करोति। वाकवरग्रहं वागाई खरग्रहश्च । इतिलक्षणः पाण्डामयः कफाजायते ॥८॥
गङ्गाधरः-सन्निपात-पाण्डुरोगस्य हेतुलक्षणमाह-सन्नेित्यादि । सर्वाबानि वातपाण्डुरोग-पित्तपाण्डुरोग-कफपाण्डुरोगोक्तानि कषायादिकदादि. मधुरादीनि सेवितु शीलमस्य तस्य, सर्व्वदोषा वातपित्तकफाः पित्तप्रधाना दुष्टाः सन्तस्त्रिदोषलिङ्ग मुदुःसहं त्रिदोषज पाण्डुरोगं कुर्वन्ति ॥९॥
गङ्गाधरः-शेषं मृत्तिकाजपाण्डुरोगस्य हेतुलक्षणमाह-मृत्तिकेत्यादि । मृत्तिकादमशीलस्य मृत्तिकाविशेषभक्षणस्वभावस्य पुंसस्त्रयाणां मलानां वातपित्तकफानामन्यतमो वातादाकैकमलः कुप्यति। तत्र मृत्तिकाविशेषमाह येन यो मलः कुप्यति-कषायेत्यादि। कषाया मृत् मारुतं कोपयेत्। उपरा मृत् क्षारमृद भक्षिता पित्तं कोपयेत् । मधुरा मृद् भक्षिता कर्फ कोपयेत् । रसादींश्च सा सा मृत् कोपयेत् । सा च सा च मृत् रौक्ष्याद भुक्तवतो भुक्तमन्नश्च रुक्षयेत् । तर्हि किं मृत्तिकाजः पाण्डुरोग एककदोषाद् भवति तेन च दोषाः पित्तप्रधानाश्चेति वचनं न सङ्गच्छते इति ? नैवं, कषायादाकैका मदेव स्वपमा. चात् पित्तप्रधानांस्त्रीन् दोषान् कोपयति, तत्र कषाया वातप्रबलपित्तप्रधानत्रिदोषं कोपयेत्। ऊपरा पित्तप्रधान, मधुरा पित्तप्रधानकफमवलत्रिदोषं कोपयेत् । न तु कषायोपरमधुरा त्रिधा मन्मिलिता भक्षिता त्रीन् दोषान्
पक्रपाणिः-सर्वान्नेत्यादिना सान्निपातिकं व्याकरोति। विदोषलिङ्गमिसि प्रत्येकदोषलिङ्गसमुदाययुक्तम् ॥९॥
चक्रपाणिः- मृत्तिकेत्यादिमा मृभक्षणजमाह । अत्र च दोषसम्बन्धे सत्यपि मृदेव व्यपदेशिका न दोषाः। तस्या एव चिकित्साभेद-लिङ्गभेदकर्तृत्वात् । कषाया मारतमित्वादिया दोऽपि
For Private and Personal Use Only