________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः
चिकित्सितस्थानम् । २९७७ पित्तलस्याचितं पित्तं यथोक्तः स्वः प्रकोपणैः । दूषयित्वा तु रक्तादीन् पाण्डुरोगाय कल्पते ॥ स पीतो हरिताभो वा ज्वरदाहसमन्वितः। छर्दिमूर्छापिपासातः ॐ पीतमूत्रशकुन्नरः॥ स्वेदनः शीतकामश्च न चान्नमभिनन्दति। कटुकास्यो न चास्योष्णमुपशेतेऽम्लमेव च ॥ उद्गारोऽम्लो विदाहश्च विदग्धान्नस्य जायते। दौर्बल्यं भिन्नवर्चस्त्वं दौर्गन्ध्यं तम एव च ॥७॥ विवृद्धः श्लेष्मलैः + श्लेष्मा पाण्डुरोगं स पूर्ववत् । करोति गौरवं तन्द्रां छथि श्वेतावभासताम् ॥ प्रसेकं लोमहर्षश्च सादं मूच्छी भ्रमं क्लमम् । श्वासं कासं तथालस्यमरुचिं वाक्खरग्रहम् ॥ मूत्रानिवर्चसां शौक्ला कटुरुक्षाम्लकामताम् । श्वयथं लवणास्यत्वमिति पाण्डामयः कफात् ॥८॥ गङ्गाधरः-सहेतुपित्तपाण्डुरोगलक्षणमाह-पित्तलस्येत्यादि। पित्तलस्य पित्तप्रधानस्य स्वैः पित्तस्य यथोक्तैः कटम्लोष्णादिभिः प्रकोपणैराचि पित्तं रक्तादीन् दूषयिता पाण्डुरोगाय कल्पते । नरः स पीतादिर्भवति । विदग्धानस्योद्वारोऽम्लो विदाहश्च जायते। इति पित्तपाण्डुरोगस्य हेतुलक्षणमुक्तम् ॥ ७॥ .. गङ्गाधरः-अथ कफपाण्डुरोगस्य हेतुपूर्वकलक्षणमाह-विटद्ध इत्यादि। श्लेष्मलेगु रुमधुरादिभिः श्लेष्मकोपनै विवृद्धः श्लेष्मा स पूव्ववत् रक्तादीन
चक्रपाणिः-पित्तलस्येत्यादिना पत्तिकमाह। सर्वोऽपि पाण्डुरोगः पित्तजः तथाप्ययं विशेषण दोषान्तरासंपृक्तत्वात् प्रबलपित्तजन्यत्वात् पैत्तिक इत्युच्यते, यथा पत्तिकं रक्तपित्तम् । अत एवात्र पित्तातिप्रबलतोपदर्शनार्थ पित्तलस्येत्येनेन पित्तप्रकोपिकारणान्यक्तानि यथोक्तः इति । रक्तादीन् रक्तप्रकारान् तेन रसरक्तादीनामपि ग्रहणम् । तृष्णामूछापिपासात इत्यत तृष्णानिमित्ता मूर्छा तृष्णामूछा तेन पिपासया न पोनरुत्यम्। अन्ये तु तृष्णामिह क्षुभामाहुः। केचित् तृष्णामूछोपरीतस्येति पठन्ति ॥७॥ ..... चक्रपाणिः-विवृद्धैरित्यादिमा कफजामाह। पूर्व दिति रक्तादीन् संदूष्य ॥ ८॥ ......
* तृष्णामूर्छापिपासात इति चक्रः। विवृद्धैः श्लेष्मलैः इति चक्रसम्मतः पाठः।
For Private and Personal Use Only