________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९७६
चरक-संहिता। ग्दुरोगचिकित्सितम् सम्भूतेऽस्मिन् भवेत् सर्वः कर्णक्ष्वेडी हतानलः। . दुर्बलः सदनोऽन्नविट् श्रमभ्रमनिपीडितः ॥ गात्रशूलज्वरश्वास-गौरवारुचिमान् नरः। मृदितैरिव गात्रैश्च पीड़ितोन्मथितैरिव ॥ शूनानिकूटो हरितःशीर्णरोमा हतप्रभः। . कोपनः शिशिरद्वेषी निद्रालुः ष्ठीवनोऽल्पवाक् ॥ पिण्डिकोद्वष्टकटूगरु-पादरुक्सदनानि च। स्युरध्वारोहणायासैविशेषस्तस्य वक्ष्यते॥५॥ आहारैरुपवासैश्च वातलैः कुपितोऽनिलः। जनयेत् कृच्छ्रपाण्डुत्वं सरुवारुणभासताम् ॥ अङ्गम ज्वरं तोदं कम्पं पार्श्वशिरोरुजम् । ..
वर्चःशोषास्यवैरस्यं शोथानाहबलक्षयान् ॥ ६ ॥ ... गङ्गाधरः-तस्य सामान्यलिङ्गम् सम्भूत इत्यादि । अस्मिन् पाण्डुरोगे सम्भूते जाते सर्वो वातादिपाण्डुरोगी कर्णवेडी कणरोगविशेषवान् । गात्रै मृदितैरिव विशिष्टः पीडितैरुन्मथितैरिव च गात्रैर्विशिष्टः । पिण्डिका जाम्वधोमांसपिण्डं तस्योदवेष्टनं दण्डादिनेव ताड़नं कठ्यादिषु रुक सदनानि च अध्यारोहणायासैः स्युः । इति पाण्डुरोगसामान्यलक्षणम्, विशेषतो वातजादिलक्षणं वक्ष्यते ॥५॥ ... गङ्गाधरः-आहारैरित्यादि। वातले रुक्षादिभिराहारैः। कृच्छपाण्डुत्वं सरुक्षारुणभासतामङ्गमर्दादींश्च जनयेत् ॥६॥
चक्रपाणिः-सम्भूतेऽस्मिन् इति उत्पन्ने पाण्डुरोगे कर्णक्ष्वेड़ इत्यादि सामान्य लक्षणम् । कर्णक्ष्वेड़ी कर्णनादवान्। अन्नविड़ित्यादिना अनाग्रह उच्यते। अरुचिमान् इत्यमेन प्रार्थितान. भक्षणासामर्थ्यमुच्यते। शिशिरद्वेषी इति शीतद्वेषी। शिशिरद्वेषिता च पित्तरोगेऽप्यस्मिन् रोगमहिना भवति। पिण्डिकोवेष्टनं पिण्डिकापीड़ा। आरोहणेनायासाच्चेति । विशेषश्चास्य व्रक्ष्यते इति पाण्डुरोगस्य वातजत्वादिविशेषतो हेतुलिङ्गविशेषो वक्ष्यते इत्यर्थः ॥५॥ ..... चक्रपाणिः-आहारैरित्यादिना वातजस्य हेतुलक्षणे अप्याह । सामान्यलक्षणानि सर्वत्र भवन्ति विशेषलक्षणानि विशेषलक्षणाय ॥६॥
For Private and Personal Use Only