________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः
चिकित्सितस्थानम्। २६७५ क्षाराम्ललवणात्युष्ण-विरुद्धाहारसेवनात्। निष्पावमाषपिण्याक-तिलतैलनिषेवणात् ॥ विदग्धेऽन्ने दिवास्वप्नाद व्यायामान्मैथुनात् तथा।' प्रतिकर्मर्त्तवैषम्याद वेगानाञ्च विधारणात् ॥ कामचिन्ताभयक्रोध-शोकोपहतचेतसः। समुदाणं यथा पित्तं हृदये समवस्थितम् ॥ वायुना बलिना क्षिप्तं सम्प्राप्य धमनीर्दश । प्रपन्नं केवलं देहं त्वङ्मांसान्तरसंस्थितम् ॥ प्रदृष्य कफवातास्मृक्-त्वङ्मांसानि करोति तत् । पाण्डुहारिद्रहरितान् वर्णाश्च विविधांस्त्वचि॥ . स पाण्डुरोग इत्युक्तस्तस्य लिङ्ग भविष्यतः। ... हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा ॥४॥ गङ्गाधर:-क्षारेत्यादि। निष्पावः शिम्बिः, पिण्याकस्तिलकल्कः । विदग्धेऽपक भुक्तेऽन्ने दिवास्वप्नात्, प्रतिकर्मवैषम्यादपररोगप्रतिकाराय. कम्मैणामसम्यगयोगात्, ऋतुवैषम्याच्च। एभिहेतुभिर्यथा पित्तं समुदीर्ण हृदये समवस्थितं तथा तैरेव क्षारादिभिः कुपितेन बलिना वायुना क्षिप्तं तत् पित्तं दश हृदयमूला धमनीः सम्प्राप्य केवलं कृत्स्नं देहं प्रपन्नं सत् बङ्: मांसयोरन्तरे संस्थितं कफवातामुकखङ्मांसानि सन्दृष्य बचि पाण्डादीन् विविधान् वर्णान् तत् पित्तं करोति, स पाण्डप्राधान्यात् पाण्डुरोग इत्युक्तः। भविष्यतस्तस्य लिङ्ग हृदयेत्यादि॥४॥
चक्रपाणि:-क्षारेत्यादिना समानं हेतुमाह-व्यायाममैथुने विदग्धेऽन्ने रोगहेतुनी । प्रतिकर्मणाम् ऋतूनान वैषम्यम्। धमनीर्दश इति हृदयानितदशधमनीः। केवलमिति कृत्स्नम् । प्रदूष्य कफवातासृगित्यादिपाठे वायोः पित्तेन दूषणम्। यदा तु कफपित्तामृगिति पाठः बदा पित्तेन हृदयस्थेन स्थानान्तरस्थस्य पित्तस्य दृष्टिज्ञेया। समुदीर्णमित्यादिना एवेयं संप्रातिः पूर्वोकसामान्यसंप्राप्तेरेव प्रपञ्चः। तस्येत्यादिना पूर्वरूपमाह। स्वेदाबाध इति केचित् पठन्ति ॥४॥
For Private and Personal Use Only