________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७४
चरक-संहिता। पाण्डुरोगचिकित्सितम् दोषाः पित्तप्रधानाश्च यस्य कुप्यन्ति धातुषु। शैथिल्यं तस्य धातूनां गौरवञ्चोपजायते ॥ ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः। वजन्ति क्षयमत्यर्थं दोषदृष्यप्रदूषणात् ॥ सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः । वैवण्यं भजते तस्य हेतु शृणु सलक्षणम् ॥३॥ गङ्गाधरः-सम्माप्तिमाह-दोषा इत्यादि। पित्तप्रधाना इत्यनेन वातादिपृथगजेषु पाण्डुरोगेषु सर्वेषु पित्तमारम्भकमुक्तं, तर्हि द्विदोषा एव किं सर्वे भवन्तीत्यत उक्तं दोषा इति बहुवचनान्तम् । सर्वत्र पित्तं प्रधानं सदपि योज्यो दोषः प्रधानतयारम्भकस्तेन दोषेण पृथगदोषजो व्यपदिश्यते न तु अपधानदोषेण। न हि सति पित्तप्राधान्ये द्वावितरौ दोषावारम्भको भवतः । तथाविधकोपनकारणाभावादितिवद् द्वन्द्वजः पाण्डुरोगोऽस्ति, सति पित्तप्राधान्ये तदितरयोः प्राधान्येन प्रकोपे तज्जपाण्डुरोगस्य सन्निपातजखव्यपदेशात्। न हि समत्रिदोषजत्वेन पाण्डरोगसम्भवोऽस्ति, येन सन्निपातान्तरं व्यपदिश्य द्विदोषजो व्यपदेश्यः स्यात्। पित्तप्रधाना इत्युक्तमा सन्निपातेऽपि पित्तप्राधान्यवचनादिति। ये चान्येऽप्योजसो गुणा माधुर्यलाजगन्धादयः । यस्यवमोजःक्षयः स्यात् सोऽल्परक्तादिः सन् वैवयं भजते, तद वंवयं पाण्डुवर्णाव्यभिचारात् पाण्डुरोगमाहुस्तस्य सलक्षणं हेतु शृणु ॥३॥
चक्रपाणिः-दोषा इत्यादिना संप्राप्तिमाह। पित्तं प्रधानं ययोस्ते पित्तप्रधानाः, बहुवचन व्यक्तिबहुत्वापेक्षया न तु पारमार्थिकम् । गौरवं पाण्डुरोगिणो निःसारधातुत्वादिति ब्रुवते । भोजसी गुणा इति ओजसो ये दश गुणाः क्षीरसमाना उक्तास्ते ज्ञेयाः। ओजसः क्षपणे नैव स्नेहक्षये लब्धे पुनः स्नेहक्षयाभिधानं विशेषक्षयाभिधानार्थम्। दोपैदूप्याणां प्रकृष्टाद् दूषणादिति दोष. बूष्यप्रदूषणात् । निःसारः अष्टौ सारा इत्यादिना प्रोक्तसारविरहितः । शिथिलेन्द्रियः दुर्बलेन्द्रियः। स इति पुमान् । रक्तपित्तयोरेकयोनित्वात् अपिच पित्तरक्तयोरिह रक्तवृद्धिर्भाव्या तथापि इह रक्तक्षयो रक्तपोषकरसस्य पित्तेन क्षपणात् रक्तपोषकसारभागानुत्पादाच्च । यद्यपि पित्तं तेजोरूप-तया वर्णकरमिहोच्यते, यदुक्तं-तेजोधातुवर्ण कर इति, तथापि विकृतत्वात् पित्तमिह विकृतवर्णकृदेव
भवति ॥३॥
For Private and Personal Use Only