________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षोडशोऽध्यायः। अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥१॥ पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः। चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः॥२॥
गङ्गाधरः-उद्दिष्टक्रमाद् ग्रहणीरोगचिकित्सानन्तरं पाण्डुरोगचिकित्सितमाह-अथात इत्यादि। सर्च पूर्ववद व्याख्येयम् ॥१॥
गङ्गाधरः-पाण्डुरोगा इत्यादि। पञ्चमो मृदो भक्षणादिति। स्वकारणकुपितवातादिभिरेवान्यरोगा आरभ्यन्ते न च तत्कारणभेदाद्भिद्यन्ते, तथा भक्षितकषायादिमृत्तिकया कुपिता वातादयोऽन्यरोगानिव पाण्डुरोगश्च आरभन्ते। किमर्थ मृद्भक्षणकारणाद्भिद्यते इति चेन्न, कषायादिमृद्भक्षणकुपिता वातादयः पाण्डुरोगमेवारभन्ते, नान्यरोगमारभन्ते, इत्यतो मृद्भक्षणतो भिद्यते, चिकित्साविशेषार्थ वातादिहरमात्रचिकित्सया प्रशमाभावात् यथा च मृद भक्षिता वातादीनां कोपं जनयति, तथा पाण्डुरोगश्च जनयतीत्युभयहेतु दिति अतश्च मृत्तिकाजत्वेन भिद्यत इति । यत् पुनः शोफकारणं मृदुक्ता तत् तु कषायोपरमधुरमृद्भिन्ना मृत्। तया कुपितवातादयः शोफमिधान्यरोगश्च जनयन्ति, कारणान्तरकुपिता इव, तस्मान मृत्तिकाजत्वेन शोफो भिद्यते ॥२॥
. चक्रपाणिः-ग्रहणोदोषचिकित्सिते तीक्ष्णाग्निना पित्तजननात् ग्रहणीचिकित्सितानन्तरं पित्तप्रधानपान्डुरोगचिकित्सितमुच्यते। पाण्डुना वक्ष्यमाणेभ्यः हरितालवणेभ्यः प्रधानेन वणन चिकित्सितो रोगः पाण्डुरोगः। सुश्रुते उक्त-सर्वेषु चैतेषु च पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः इति । कामलाहलीमकादिचिकित्सा च पाण्डुरोगभेदत्वादेव इहैव वक्तव्या। किंवा पाण्डुरोगादीनां चिकित्सितं पाण्डुरोगचिकित्सितमिति परिग्रहात कामलाचिकित्सितमिति प्रतिज्ञातम्। सिताथीये यद्यपि पाण्डुरोगः पञ्चसंख्याक उक्तस्तथापीह पुनस्तदनुवादेन सुश्रुत्लोक्तचतुःसंख्यात्वं निषेधयति । उक्तं हि सुश्रुते-पाण्डामयोऽष्टार्द्धविधः प्रदिष्टः पृथकसमस्तैर्युगपच दोषैरिति । वृधामणजः पृथगेवोच्यते ॥१२॥
३७३
For Private and Personal Use Only