________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७०
चरक-संहिता। ग्रहणीदोषचिकित्सितम् प्रातराशे त्वजीणेऽपि सायमाशो न दुष्यति । दिवा प्रबोध्यतेऽण हृदयं पुण्डरीकवत् ॥ तस्मिन् विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः। व्यायामाच्च विचाराच्च छ विक्षिप्तत्वाच्च चेतसः।। न क्लेदमुपगच्छन्ति + दिवा तेनास्य धातवः। अक्लिन्नेष्वन्नमासिक्तमत्यन्तेषु न दुष्यति ॥ अविदग्धेष्विव पयःस्वन्यत् संमिश्रितं पयः ।
नैव दुष्यति तेनैव समं सम्पद्यते यथा ॥ ८७॥ यद् भुक्त तदध्यशनं मतमिति। त्रीण्यप्येतान्यशनानि मृत्यु सृजन्ति घोरान् व्याधीन् वा सृजन्तीति ॥८६॥
गङ्गाधरः-तहि सद्योऽजीणे भुञ्जीत वा न वेत्यत आह-प्रातरित्यादि। प्रातराशे पूर्वाह्न कृतभोजने खजीणे सत्यपि सायमाशो रात्रौ द्वितीयभोजनं न दुष्यति। कस्मात् ? दिवा हि हृदयं पुण्डरीकवदर्केण प्रबोध्यते विकचं क्रियते। तस्मिन् हृदये विबुद्धे प्रस्फुटिते सति स्रोतांसि सच्चोण्यन्नवहादीनि सवेशः स्फुटितत्वं यान्ति। एवंनुरुषस्य दिवा व्यायामाच्च विचाराच्च विचरणं गमनागमनं चेतसो विक्षिप्तलाच चित्तस्य विविधविषयेषु भ्रामणात् अस्य दिवा दिने तेन पूर्वाह्नाहाराजीणे निशाभोजनेन धातवो रसरक्तादयो न क्लेदमुपयान्ति। तर्हि दैनाजीणे भोजने सर्व स्मिन्नेव कस्मान्न दोषः स्यादित्यत आह–अक्लिन्नेष्वित्यादि। पूर्वाह्नभोजनाजीणे रसादिषु धातुष्वत्यन्ताक्लिन्नेषु आसिक्तं भुक्तमन्नं न दुष्यति। यथा पयःस्व विदग्धेषु स्वल्पोष्णानम्लेषु अन्यत् पयो मिश्रितं न दुष्यति ॥८७॥ - चक्रपाणिः-प्रातराश इत्यादि प्रातर्भोजनमित्यर्थः ! कस्मात् तत् न दुष्यतीत्याहदिवेत्यादि। स्फुटत्वमिति स्रोतसां वहनेन रसव्याप्तिर्भवति, ततश्च नक्ते इदं स्रोतांसि याति । तथा व्यायामादिभिश्च शोष्यमाणा न उत्क्लेदमुपयान्ति धातवः। व्यायामो गमनादिः, विहारोऽनक्षेपणादिचेष्टा । स्रोतउत्क्लेवे किं भवतीत्याह---अन्निधित्यादि। आसिक्तमिति प्रक्षिप्तम् । अविदग्धेत्यादिना दृष्टान्तमाह ॥ ८७ ॥ * विहाराच्च इति चक्रः।। ___+ उत्क्लेदमुपगच्छन्ति इति चक्रपाठः । भविदग्भ इव क्षीरे भीरमन्यद विमिश्रितम् इति चक्रेण पठ्यते। ..... ..
For Private and Personal Use Only