________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः] चिकित्सितस्थानम् ।
२९७१ रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च। परिक्ल दं यान्ति कोष्ठे संवृते देहधातवः॥ क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति। विदग्धेषु पयःवन्यत् पयस्तप्तैष्विवार्पितम् ॥ ... नैशेष्वाहारजातेषु नाविपक्केषु बुद्धिमान् । तस्मादन्यत् समश्नीयात् पालयिष्यन् बलायुषी ॥८८॥
संग्रहश्लोकाः। अन्तरग्निगुणा देहं यथा सन्धारयेच्च सः। यथान्नं पच्यते यञ्च यथाहारः करोत्यपि ॥ येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्। रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च ॥ वृष्याणामाशुकृ तु तुकालोद्भवक्रमः। रोगैकदेशकृद्धतुरान्तराग्निर्यथाधिकः ॥ प्रदुष्यति यथा दुष्टो यान् रोगान् जनयत्यपि। ग्रहणी या समासाच्च ग्रहणादोषलक्षणम् ॥ गङ्गाधरः-रात्रावजीर्ण तु दिन भोजनं यथा स्यात् तदाह-रात्रावित्यादि। रात्रो तु मूर्यसम्पर्काभावात् पुण्डरीकवत् हृदये म्लाने मुद्रिते सत्ययनेषु रसादिवहस्रोतःसु संटतेषु कोष्ठे च संदृते देहधातवः परिक्ले दं सर्वथा क्लिन्नभावं यान्ति। क्लिन्नेषु तेषु रसादिधातुषु खल्वन्नेष्वपक्केषु च सत्स्वन्यदन्नमासिक्तं प्रदुष्यति। यथा विदग्धेष्वम्लीभूतषु तप्तेषु पयःस्वन्यत् पयोऽपितं प्रदुष्यति। ततो यत् कार्य तदाह--नैशेष्वित्यादि। तस्माद् बुद्धिमान् नशेष्वाहारजातेषु अविपक्क षु बलायुषी पालयिष्यन्नन्यदन्नं न समश्नीयादिति ॥ ८८॥
चक्रपाणिः--म्लान इति सङ्कचिते। अपक्वेष्वित्यन्येषु । उपसंहरति नैशेष्वित्यादिना। न समश्नीयादिति योजना ॥ ८८ ॥ चक्रपाणिः-अन्तरग्निरित्यादिना अध्यायसंग्रहः। येऽग्नय इति यथास्वं स्वान् इत्याइयक्तं
For Private and Personal Use Only