________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.५श अध्यायः] चिकित्सितस्थानम् ।
२६६६ यत् किञ्चिद् गुरु मेध्यं यत् श्लेष्मलञ्चापि भोजनम् । सव्वं तदयग्निहितं भुक्त्वा च वपनं दिवा ॥ मध्यान्यन्नानि योऽत्यनावप्रतान्तः ® समश्नुते । न तन्निमित्तं व्यसनं लभते पुष्टिमेव च ॥४॥ कफे वृद्धे जिते पित्त-मारुते चानलः समः। समधातोः पचत्यन्नं पुष्टायुर्बलवृद्धये ॥५॥
भवन्ति चात्र। पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम् । विषमं बहु चाल्पं वाप्यप्राप्तातीतकालयो॥ पूर्वानशेषे च पुनर्भक्तमध्यशनं मतम् ।
त्रीण्यप्येतानि मृत्यं वा घोरान् व्याधीन् सृजन्ति वा ॥८६ गङ्गाधरः-यदित्यादि। मेध्यं मेधाहितं पवित्र न खमेध्यम्। मेध्यानीत्यादि। योऽमतान्तोऽग्लानः पुमानत्यनो मेध्यान्यनानि समश्न ते स तनिमित्तमत्यग्निनिमित्तकं व्यसनं न लभते पुष्टिञ्चैव लभते ॥४॥
गङ्गाधरः--कथं तदाह-कफ इत्यादि। उत्तमध्याहारैरत्यग्निजनस्य कफे द्धे सति पित्तमारुते तु जितेऽनलः समः सन् समधातोस्तस्य पुष्ट्यायुर्बलवृद्धयेअन्नं पचति । इति ॥८५॥
गङ्गाधरः-अत्र श्लोका भवन्ति-भवन्तीत्यादि । पथ्यापथ्यमित्यादि। इह भोजनविषये यत् पथ्यं यच्चापथ्यं तदेकत्र यदभुक्तं भवति तत् समशनं बुधर्मतम्। बहु चाल्पं वा अप्राप्ताहारकाले वा अतीताहारकाले वा यद भुक्तं पथ्यं वापथ्यं वा पृथक्त्वेन तद्विषममशनं मतम् । पूर्वान्नशेषे पूर्वदिनाहारस्य पाकावशेषे सति
चक्रपाणिः-मेद्यमिति मेदुरम्, मेदोजनकं वा। अप्रशान्त इति आबुभुक्षितः। व्यसनं मरणमित्यर्थः। पुष्टिमेव लभते इति योज्यम् ॥ ८४ । ८५॥
चक्रपाणिः-सम्प्रति प्रागुक्तसमशनादिलक्षणमाह-पथ्यापथ्येत्यादि। पथ्यापथ्यं किञ्चित् एकत्र मिलितं, यथा रक्तशाल्यन्नं यवान्नं मिलितम् । बहुभुक्तम् अल्पभुक्तं वा तथाऽप्राप्त कालमतीतकालञ्च भुक्तं विषममुच्यते। पूर्वान्नेत्यादिना भुक्तं दिवा भुक्तस्य पुनरूप. योगोऽध्यशनम् ॥ ८६॥
* अप्रशान्त इति चक्रपाठः ।
For Private and Personal Use Only