________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(ग्रहणीदोषचिकित्सितम
२६६८
चरक-संहिता। (ग्रहणीदोषचिकित्सितम् माईवं जनयन्त्यग्नेः स्निग्धमांसरसास्तथा। पिबेच्छीताम्बुना सर्पिमधूच्छिष्टेन संयुतम् ॥ गोधूमचूर्ण पयसा सर्पिष्कं पिबेन्नरः। आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवजितान् ॥ पयसा समितां वापि घनां त्रिस्नेहसंयुताम्। नारीस्तन्येन संयुक्तां पिबेदौडुम्बरी त्वचम् । ताभ्यां वा पायसं सिद्धं पिबेदनिशान्तये ॥२॥ श्यामा त्रिवृद्विपक्व वा पयो दद्याद् विरेचनम् । असकृत् पित्तहरणं पायसं प्रतिभोजनम् । भिषक् प्राज्ञः प्रसमीक्ष्य तस्मै दद्याद विधानवित् ॥ ८३ ॥
तलयोनीनां फलानि तिलवातामादीनि सशर्कराः ससिता मृत्कुश्चा मृतखण्डा आश्वत्यग्नेर्माईवं जनयन्ति, तथा स्निग्धमांसरसाश्च माईवमग्नेः जनयन्ति । पिबदित्यादि । द्रवीकृतेन मच्छिष्टेन संयुक्तं सर्पिः शीतेनाम्बुना पिबेत् । मोधमचर्ण पयसालोड्य ससर्पिष्कमत्यग्निर्नरः पिबेत् । आनूपेत्यादि । आनूपमांसरसेन चतुर्गुणेन सिद्धारतैलवजितांस्त्रीन स्नेहान् घृतवसामनः पिबेत् । केचित् प्रत्येकमाहुः। पयसा समितां गोधूमचर्ण त्रिस्नेहसंयुतां घृतवसामन्जसंयुतां घनामद्रवीभूतां पिबेत्। नारीत्यादि। ओडुम्बरौं बचं नारीस्तन्येन पिष्ट्वा पिबेदघनामेव। ताभ्यामित्यादि। ताभ्यां नारीस्तन्यौडम्बरलगभ्यां किञ्चित् तण्डुलं पायप्तं सिद्धमित्यग्निशाम्तये पिबेत् ॥ ८२॥ __गङ्गाधरः-श्यामेत्यादि। श्यामात्रिद्विपक्क पयो वा विरेचनं दद्यात् । पित्तहरणं पायसं तद्विरेचने प्रतिभोजनमसकृत् दद्यात् ॥८३॥
उष्णोदकमृदिता मृत्पिण्डा मृत्कुञा उच्यन्ते। उत्कारिकेत्यन्ये। घनां त्रिस्नेहसंयुतामित्यात घनशब्देन त्वगुच्यते ॥ ८२॥
चक्रपाणिः-पायसेन प्रतिभोजनं यस्मिन् पित्तहरणे तत् पायसप्रतिभोजनम् ॥ ३ ॥
For Private and Personal Use Only