________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्याया] चिकित्सितस्थानम् ।
२६६७ तमत्यग्निं गुरुस्निग्ध-शीतर्मधुरविजलः।
अन्नपाननयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः॥ मुहर्महुरजीणेऽपि भोज्यान्यस्योपहारयेत्। . निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत् ॥ ८ ॥ कृशरां पायसं स्निग्धं पैष्टिकं गुड़वैकृतम् । अद्यात् तथौदकानूप-पिशितानि घृतानि च ॥ मत्स्यान् विशेषतः श्लक्षणान् स्थिरतोयचरानपि।
आविकञ्च घृतं मांसमद्यादत्यग्निराबलम् ॥ यवागू समधूच्छिष्टां घृतं वा क्षुधितः पिबेत्। गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत् ॥ पयो वा शर्करां सर्पिर्जीवनीयौषधैः शृतम् ।
फलानि तैलयोनीनां मृत्कुञ्चाश्च सशर्कराः ॥ .. गङ्गाधरः-तदत्यग्निचिकित्सितमाह-तमित्यादि। तमत्यग्निं गुरुखादिगुणैरन्नपानैः शान्तिं नयेत् यथाम्बुभिर्दीप्तमग्निं शान्तिं नयति। विज्जलं पिच्छिलम्। गुर्वाद्यन्नपाने खल्वजीर्णेऽपि मुहम्म हुरस्यात्यग्नेः पुंसो भोज्यानि गुर्बादीनि मुहुमुहुरुपहारयेत्। कस्मात् ? निरिन्धनोऽस्यात्यग्निरन्तरमवकाशं लब्ध्वा यथा नैनं पुरुषं विपादयेन्न मारयेत् ॥८१॥
गङ्गाधरः-यानि भोज्यान्युपहारयेत् तान्याह-कृशरामित्यादि। कृशरां तिलशष्कुलीम्। विशेषतस्तु स्थिरतोयचरान् सरोवापीपुष्करिण्यादितोयचरान् श्लक्ष्णान् कोमलान् मत्स्यानद्यात्। आवलं यावदत्यग्निपुरुषस्य बलं स्यात् तावदेतान् स पुमानद्यात्। यवागूमित्यादि। समधूच्छिष्टां यवागू क्षुधितः पिबेत्। घृतं वा स्यच्छं पिवेत्। सिरां पञ्चसिराणामन्यतमां व्यवयित्रात्यनिगोधूमचूर्णमन्थं वा गोधूमचूर्ण द्रवेणालोड्य पिवेत्। पयो वा पिबेत् शर्करां वा पिवेत्। जीवनीयदशकौषधैः शृतं घृतं वात्यग्निर्जनः पिबेत् । भत्यग्निकरं भवति एवं धर्मभेदात विरुद्ध कार्यकरं ज्ञेयम्। पित्तोष्मरूपस्यापि वह्ने प्रादेशिकपित्तोष्मणो हानिजनकत्वं जन्यजनकयोर्भेदत्वात् उपपन्नमेव ज्ञेयम् ॥ ८० । ८१॥ . .
चक्रपाणि:-स्थिरतोयचरानित्यनेन स्थिरतोयचारिणां निष्क्रियतया गौरवातिशयं दर्शयति ।
For Private and Personal Use Only