________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kallassagar
२६६६ चरक-संहिता। ग्रहणीदोपचिकित्सितम् दोर्मन्दोऽतिवृद्धा वा विषमो जनयेद् गदान् । पाच्यं ® मन्दस्य तत्रोक्तमतिवृद्धस्य वक्ष्यते ॥ ७९ ॥ नरे क्षीणकफे पित्तं कुपितं मारुतानुगम् । सोष्मकं पावकस्थाने बलमग्नः प्रयच्छति ॥ तदा लब्धबलो देहे विरुक्षे सानिलोऽनलः । अभिभूय पचत्यन्नं तैदण्यादाशु मुहुर्मुहुः ॥ पत्त्वान्नं स ततो धातून् शोणितादीन् पचत्यपि । ततो दौर्बल्यमातङ्क मृत्युञ्चोपनयेन्नरम् ॥ भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति । तृट्श्वासमोहमूर्छाद्या व्याधयोऽयग्निसम्भवाः ॥८०॥
समः सन्नन्नं पुष्ट्यायुर्बलवर्द्धनं यथा स्यात् पचति। दोषैरित्यादि। विषमः वृद्धकफवृद्धपित्तदृद्धवातदोषैर्मन्दोऽतिद्धस्तीक्ष्णोऽग्निविषमोऽग्निर्वा गदान जनयेत, कफजान् मन्दोऽग्निः पित्तजान गदानतिद्धोऽग्निर्जनयेत् वातजान् विषमोऽग्निः। तत्र मन्दस्याग्नेः पाच्यं विवर्त्तजनकक्रियाजातं प्रोक्तम् । अतिवृद्धस्य पाच्यं वक्ष्यते। भावे ण्यत् ॥७९॥ - गङ्गाधरः-नरे इत्यादि। क्षीणकफे नरे मारुतानुगं पित्तं कुपितं सोष्मकमुष्मणा सह वर्तमानं सत् पावकस्थाने नाभ्यूद्ध देशेऽग्नेर्बलं प्रयच्छति । तदा विरुक्षे देहे लब्धबलः सानिलोऽनलस्तक्ष्ण्यादन्नमभिभूय मुहम्मुहुराभु पति। स तीक्ष्णाग्निस्ततोऽभ्यवहतमन्नं पत्त्या शोणितादीन् धातूनपि पचति। ततो धातुपाकाद् दौर्बल्यं रोगश्च पित्तजं मृत्युश्च नरं नयेत् । सत्रान्ने पक्व पुनर्मु हुम्मु हुबुभुक्षायामन्ने पुनभुक्तेऽन्ने शान्तिं लभते जीर्णमात्रे भुक्तेऽन्ने प्रताम्यति । तुड़ादयश्च व्याधयस्तदत्यग्निसम्भवाः स्युरिति ॥८॥ उमरूपो जाठराग्निः। दोपैरिति सामान्योक्तऽपि योग्यतया कफपित्तवातैर्यथाक्रममेव मन्दतीक्षणविषमत्वानि ज्ञेयानि । वाच्यमिति प्रतिक्रियावचनीयं चिकित्सितमिति यावत् ॥ ७९ ॥
चक्रपाणिः-पित्तं पावकस्थाने कुपितमिति सम्बन्धः, तच्च पित्तं मारुतानुगतत्वात्
* पाध्यमित्यत्र वाच्यमांत चक्रतः पाठः।
For Private and Personal Use Only