________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1५श अध्यायः)
चिकित्सितस्थानम् । २६६५ स्नेहान्नपानविविधैश्चूर्णारिष्टसुरासवैः । सम्यक्प्रयुक्तभिषजा बलमग्नः प्रवर्द्धते ॥ . यथा हि सारदाग्निः स्थिरः सन्तिष्ठते चिरम् । स्नेहाशनादिभिस्तद्वदन्तर्वह्निर्भवेत् स्थिरः ॥ ७ ॥ हितं जीणे मितश्चाश्नश्चिरमारोग्यमश्नुते । अवैषम्येण धातूनामग्निवृद्धौ यतेत ना ॥ समैर्दोषः समो मध्ये देहस्योष्माग्निसंस्थितः। पचत्यन्नं तदारोग्य-पुष्ट्यायुबलवद्धनम् ॥
आह-नाभोजनेनेत्यादि। अभोजनेन कायाग्निर्न दीप्यते न चातिभोजना. दीप्यते। यथा निरिन्धनोऽल्पो वह्निर्न दीप्यतेऽतीन्धनातो वा न दीप्यते, तद्वद अभोजनातिभोजनान्न दीप्यते। तस्मात् । स्नेहानपानैरित्यादि । स्नेहानपानर्मिषजा सम्यक् प्रयुक्तर्विविधः स्नेहानपानः दीपनीयोषधसिद्धस्तथा चूर्णारिष्टमुरासवर्मन्दाग्नेरग्नेबलं प्रवर्द्धते। यथा सारदार्चनिः सारभूतकाष्ठानिः स्थिरः संश्चिरं सन्तिष्ठते तद्वदन्तवैहिर्जाठराग्निः स्नहासवादिभिरुक्तः स्नेहान्नादिभिर्विवृद्धः स्थिरोऽचलो भवेन्न तु इवः स्यादिति ॥७८॥
गङ्गाधर-तहि च हितं किं वृद्धा निरश्नीयादित्यत आह-हितमित्यादि। ना पुमान् पूर्वाशने जीणे हितं मितश्चान्नमश्नन् संश्चिरमारोग्यमश्नुते तस्माद धातूनामवषम्येण विषममान्द्यतीक्ष्णखाभावेनानिटद्धौ यतेत । किमर्थमवैषम्येणेत्यत आह-समरित्यादि। देहस्य मध्येऽग्निसंस्थित उष्मा समेर्वातपित्तकर्दोषः
भल्यो वा अतीन्धनावृतो वा न दीप्यते इति योजना। सारदाग्निः सारदारुणि स्थितोऽग्निः सारदाग्निः । स्नेहवदन्नं स्नेहान्नम् ॥ ७० ॥
चक्रपाणिः-मितमिति मात्रावश्यं, यद्यपि हितमिताशिनोऽपि कालविपर्ययादिना रोगा भवन्त्येव, तथापि हितमिताशिनाम् आहारजरोगोत्पत्तिन भवतीति दर्शयति। चिरमारोग्यमश्रुते इति आहारजरोगं न प्राप्नोतीति भावः । अवैषम्येण धातूनाम् इति धातुसाम्येन क्रियमाणायाम् भग्निवृद्धौ यतेत। एतेन दोषवैपम्येण पित्तोद्रेकरूपेण या अग्निवृद्धिरत्यग्निरूपा तां निषेधयति । समैरित्यादिनाग्निभेदान् समाग्निपरिपालनार्थमाह। मध्य इति समीपे अग्निसंस्थित इति
३७२
For Private and Personal Use Only