________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६४
चरक-संहिता। ग्रहणीदोषचिकित्सितम् उपवासाच्च मन्देऽग्नौ यवागूभिः पिबेद घृतम् । अन्नावपीड़िते चालं दीपनं वृहणञ्च तत् ॥ ७६ ॥ दीर्घकालप्रसङ्गात् तु कामक्षीण-®-कृशान् नरान् । प्रसहानां रसः साम्लोजयेत् पिशिताशिनम् ॥ लघुतीक्ष्णोष्णशोधित्वाद् दीपयन्साशु तेऽनलम् । मांसोपचितमांसत्वात् तथाशुतरवृहणाः ॥ ७७॥ नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात् ।
यथा निरिन्धनो वहिरल्पो वातीन्धनावृतः॥ जाते मन्देऽनौ शुद्धो वमनविरेचनाभ्यां दोषहरविधि चरेत्। व्याधियुक्तस्य ग्रहणोरोगातिसारज्वरादिरक्तव्याधियुक्तस्य ग्रहणीरोगिणो मन्देऽनौ अग्निदीपनैः सिद्धमेव सर्पिश्चरेत् । उपवासाच्च जाते मन्देऽनौ यवागूभिमेण्डादिभिघृतं पिबेत् । कस्मात् ? अनावपीड़िते सति तद घृतं दीपनं हणञ्चालश्च समर्थ स्यात् ॥७६॥
गङ्गाधरः-दीर्घकालं रोगप्रसङ्गात् कामक्षीणकृशान् यथेष्ट क्षीणान् कृशान् नरान् मन्दामीन् पिशिताशिनां प्रसहानां मांसस्य साम्ल रसैभोजयेत् । कस्मात् ? ते प्रसहा लघुखादिखादाशु अनलं दीपयन्ति मांसोपचितमांस. खादाशुतरं हणाश्च तथा भवन्ति ॥ ७७॥
गङ्गाधरः--ननु मन्देऽनौ लवनमेव युज्यते कथमेवमाहारो विधीयते इत्यत घरेदिति अग्निमान्धकारकदोषौषधविधिं चरेत् । अन्नावपीड़ितं यथा भवति तथा यवाग्वादिभिः धृतं पिबेत् । अनावपीड़ितञ्च मध्यभोजनावपीडं घृतं भवति ॥ ७६ ॥ . चक्रपाणि:-दीर्घकालेत्यादौ क्षामो व्यवसायशून्यः। क्षीणो दुर्बलः । कृशो होनमांसः। प्रसहानां मांससिद्धत्वे पिशिता-(मांसा)-शनामिति विशेषणं तेन तृणादप्रसहानां गवादीनां निषेधः । मनु प्रसहाः गुरूष्णस्निग्धमधुरा इत्युक्तम्, इह तु लघुतीक्ष्णोष्णेत्यादिना कथं लाघवम् ? उच्यते, प्रसहालां मध्ये लघवस्तेषां रसेनात भोजयेत्। तीक्ष्णेत्यादिना प्रसहगुणाभिधानम् । अन्ये तु इतरापेक्षया ये प्रर. हा लघवस्तेषामिह लघुशब्देनोपादानम्। तथान्ये अम्लादियोगात् संस्कारेण इह लाघवं साधयन्ति, एतेन राजयक्ष्मचिकित्सितेऽपि प्रसहगुणाः तीक्ष्णोष्णलघुशुचित्वादयः गुणाः उक्ताः ते न्याय्या एव ॥ ७७ ॥
चक्रपाणि:-नाभोजनेनेत्यादिना सम्यक्प्रयोगस्याग्निजनकतामाह। अभोजनमल्पभोजनम् । . . कामक्षीणे त्यस क्षामक्षीणेति चक्रपाठः ।
For Private and Personal Use Only